________________
शृङ्गारमञ्जरीकथा प्रतिभासमानेषु दिक्तटेषु, एकतः पारापतपक्षपत्रधूसरैस्तमोभिराकलिते, अन्यतः स्तोकपाकोपगूढकुवल[य]फलको "मलेनारुणकरनिकरशोणिम्ना शवलिते, अन्यत्र ताडीदलपाकपाण्डुभिः प्रतनिमानमागतैः शशधरमहोभिराच्छुरिते, अपरत्रोपलक्ष्यमा -[F. 102.B] णावसीदद्विरलतारके, अन्यतस्तमोलेशावशेषश्यामलतयाऽनुपहतकतिपयस्थूलोडुनिस्फारे चित्रपट इव हरति चेतांस्यंम्बरतले, सततस"श्चरणश्रमादिव मन्दमन्दसञ्चारिणि विनिद्रोद्दण्डपुण्डरीकेषु कमलिनीखण्डेषु मुहुर्मुहुः स्खलिते, कथमप्यासादितसौधवातायनान्तरेण प्रविश्य सुरतकेलिक्ल मग्लपितयोर्दम्पत्योः श्रमसलिलबिन्दूनतितर्षादिवाचामत्युपवनकुसुमरजःप्रकरधूसरविषि प्राभातिके मातरिश्वनि, तत्क्षणपरित्यक्तनिद्रालसकण्ठकुहरस्खलनजर्जरे रजनीविरामशंसिनि दिनलक्ष्मीप्रवेशमङ्गलपटहे मानिनीमानग्रहोच्छादनमत्र इव श्रोत्र"विवरमाविशति मुहुर्मुहुः कुकुटध्वनिते, आविर्भवनिर्भरानुरागतया निर्दयनिधुवनोपमर्दजनितजडिमतया च मुहुर्मुहुर्विघटितसङ्घटितनिद्रालसेवाश्लेषदत्तहृदयेषु विश्लिष्यद्भुजलतेषु च शिशयिषमाणेषु कामिजनमिथुनेषु, रविकिरणकुञ्चिकोद्घाट्यमानदलकवाटेषु प्राग-[F. 103. A]न्तरुषितर्यामिकैरिव मधुकरैर्विमुच्यमानेष्वेकैरपरैस्त्वापतद्भिः प्रतिगृह्यमाणेषु प्रकटितद्वारेषु श्रियो विलासभवनेषु पङ्कजेषु सद्यो"विगतनिद्रतयामन्दमन्दमुन्मुक्तगुकृतीनां कुसुमकोशेभ्यः समुत्पित्सतां मधुकरद्वन्द्वानां परागभरमन्थराः पक्षपाली डिमानमानयत्य लक्ष्यमाणक्रमसङ्गलनविगलिते तुहिनकणनिकरशीतले शनैरवश्यायसलिले, प्रथममुल्लसितस्तोकस्तोकहुङ्कृतीनां निद्रावशे पोन्मिपदलसपक्ष्मपुटतया किञ्चिदुन्मीलितदृशां स्वापसङ्कुचितगात्रप्रसरोत्सुकतया च मुहुर्मुहुर्विधुतजडितपक्षतीनामुबोधमागच्छ "तां खगकुलानां वाचालयति तरुशिखरान्तराणि, क्रमोपचीयमानबहलिम्नि कोलाहले शनैः शनैः प्रौढिक्रमविघटमानसन्धिबन्धनत या परस्परोन्मुच्यमानपृष्ठश्लथदलेषु मनाग् दलितवदनतया च दरदृश्यमानावश्यायजलजडितमकरन्दकणिकेषु निर्भरविकाशोद्वेल्ल"-[F.103. B]द्दलतया मधुकराणां मधुसत्रप्रवर्तनार्थमिव प्रकाशितकोशेषु कुसुमवीरुधां विकासमायत्सु मुकुलोत्करेषु, ध्वान्तध्वंसनैकदक्षस्य भगवत"स्त्रिलोकैकचक्षुपो मित्रस्याप्युदयमसहमानेष्विव विच्छायतामाश्रयत्सु जडाशयोत्पत्तेरगुणतायाः खनाम्नश्च सदृशमाचेष्टमानेषु कुमुदाकरेषु, चिरप्रवासिनमायान्तमवगत्य दिवसकरमरुणरोचिषा लोहि[ते]षु कवलितकुङ्कुमाङ्गरागाविव कामपि श्रियमाश्रयन्तीषु प्रसन्नवदनासु दिग्वधूसु, पवनाहतैरिवाच्छाच्छसिन्दूररजःपटलपाटलेनारुणज्योतिषा गलहस्त्यमानैस्तिमिरपरिघेरतिजवाद्विमुच्यमानेषु गगनभागेषु, विवृतचञ्चपुटास्खखिलामपि रात्रिमापीय ज्योत्स्नारसमतिसौहित्यान्मन्दमन्दगमनासु विलासमणिवेदिकामाश्रयन्तीषु [F.104.A ] निद्रालसस्तिमितलोचनासु चकोरकुटुम्बिनीषु, प्रकटिताशेषवस्तुसाथै रालोकैरपि तमः पटलैरिवाच्छाद्यमानासु दोषैकदृष्टेर्दुर्ज"नस्येव कौशिककुटुम्बकस्य दृष्टिषु, दूरादपि समेत्य
१ हरिति। २ °चेतांसाम्बर। ३ प्रभातिके। ४ पक्षा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org