SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेव विरचिता विधिविलसितेष्विव क्रीडाकमलदीर्घिकानामन्तरुज्झितपक्षपातेषु झंटिति घटमानेषु चक्रवाकमिथुनेपु, आश्रितवैराग्येषु योगिष्विव गृहावस्थितिविमुखेषु निर्वाणमाश्रयत्सु प्रदीपेषु, स्फुटदकठोरकम लकिञ्जल्कजर्जरीवर्जितमकरन्दकणकपायिते सङ्गमोत्सुकप्रचलचक्रवाककामिनीपक्षविक्षोभिताम्भःप्रसरशीकरासारसम्पर्क"शिशिरिते मन्दमन्दान्दोलितोपवनकुसुमवीरुधि प्रबुद्धमधुकर ध्वनितमधुरिमानन्दितोदामनिधुवनक्लान्तकामिनीजनश्रवणविवरे"[F. 104. B]वाति प्राभातिके मरुति, अनास्त्यानजतुरसत्विषा बालातपच्छायाप्रसरेण विच्छुरितच्छदतया रक्ताम्बुजवनभ्रममावहत्सु पुण्डरीकखण्डेषु, त"मोलेशावशेषलिप्तबलतया गहनोदरवर्तिनां जलाशयानां क्षणमिन्दीवरभ्रान्तिमुत्पादयत्सु कुमुदकाननेषु, उदयशैलशिखरचूडामणितामाश्रयतो दलितदाडिमप्रसूनपाटलस्य पाटिततमसः प्रकाशिताशेषभुवनाभोगस्य भगवतो भावतः प्रभाजालेन जीवित "इव उच्छसित इव प्रबोधित इव निखिलेऽपि भुवनतले, सुबन्धुना सुवर्णशतानि पञ्च प्रच्छदपटे बन्धयित्वा तत्पाश्चात् तदीयामनुचरीम्-'त्वया प्र"च्छदपटोऽन्वेषणीय' इत्याभाष्य द्यूतक्रीडा) टिण्टां जगाम । ततो लावण्यसुन्दरी यावदुत्थायावलोकयति तावत् तमपश्यन्ती क गतोऽसाविति निजा"मनुचरीमपृच्छत् । साऽभ्यधात्-'गतः सः, परं क गत इति न ज्ञायते । किन्तु गच्छता तेनेदमभिहितं यत् प्रच्छदपटोऽन्वेषणीयः' इति । ततस्तदभिहितयानुचर्या"[F. 105. A]तथाकृते सुवर्णशतपञ्चकं प्रच्छदपटप्रान्तनिबद्धमवलोक्याभ्य॑धायि लावण्यसुन्दर्या-'न केवलमसौ रूपवान् विदग्धो युवा, दाताऽपि । अहो सुवर्ण"मन्यत् सुरभि क्व प्राप्यते ?' ततो बकुलिकायामागतायाम्-'भद्रे ! गतोऽसौ क्वापि तदन्विष्यताम्' इत्यवदत् । अथ बकुलिकाश्वतरीमारुह्य सपरिच्छदा" नूनमनेन टिण्टायां भवितव्यमिति टिण्टां जगाम । तत्र महाधनानां मध्ये प्रागल्भ्येन तं क्रीडन्तमवलोकयन्ती यतो द्यूतकाराणांबवयो वश्या(?)भवन्तीति तूष्णीमेव तस्थौ । अनन्तरमसाव[व]लोक्य-'अक ! कियत्कालमिहागतायाः' इत्यपृच्छत् । साऽब्रवीत-'अतिचिरं वर्तत' इति तयाभिहिते-'अनुचितस्थाने भवादृशीनामागन्तुं न युज्यते' इत्यभिधाय प्रतिकर्तारं प्रक्षिप्य-'लेख्यकं क्रियताम्' इति सभिकमभ्यधात् । अथ-'द्रम्माणां सहस्राणि पश्चाशद् भवताजितानि' इति सभिकेनाभिहतम् । सोऽब्रवीत्-'अकायास्तावद् द्रम्मसहस्राणि चत्वारि ताम्बूलार्थ प्रदीयताम् , तथा षोडशसहस्राणि लावण्यसुन्दर्याः [F.105. B] प्रेष्यताम्' इत्यभिधाय द्रम्मसहस्रर्दशभिस्त्यागं कृत्वा बकुलिकया साधं लावण्यसुन्दर्या गृहमगात् । ततः स्व"विभवानुरूपैः स्नानभोजनादिभिरुपकारैस्तदिनमत्यवाहयत् । रजन्यां तु लावण्यसुन्दरी सुरतोपभोगमनुभूय जातप्रणया तमवोचत्-'कुत १ झटति । २ जर्जराणावर्जित। ३ °कषायेते। ४ प्रभातिके। ५ अनास्थान। ६ तत्पारखात्। ७ टेटां। ८ गतोसावति। ९ प्रीत। १० क्याभिधायि। ११ वख्या। १२ प्रतिकता। wwwwwwwww For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy