________________
६२
शृङ्गारमञ्जरीकथा
www
(6)
आगम्यते क्व वा गन्तव्यंम् ?' इति पृष्टः स आगमनस्थानमावेद्य प्रतापमुकुटनामानं चक्रवर्तिनमचलगितुं प्रातरेवास्माभिर्गन्तव्यम्" इत्यवदत् । तयोक्तम् -' यद्यर्थोपार्जनार्थमेव गन्तव्यं तदा भूयानर्थसञ्चयो ममाप्यस्ति स तावदुपयुज्यताम् । तस्मिन् परिक्षीणे यथा तुभ्यं रोचिष्यते तथा कुर्य्याः । ततस्तेनाभिहितम् - ' भवतीनामङ्गमेवोपयुज्यते न पुनरर्थः । स हि दीयत एव । तदवश्यं मया प्रातर्गन्तव्यम् ।' अन्येद्युः " सा ढोण्डाभिधानायाः कुट्टन्याः सकाशं गत्वेदमभ्यधात्- ' मातस्तदीयवचनौतिक्रमं न करोमि । न चास्मिन् गते जीवितुं शक्नोमि । तदादिश [I. 106. A] यदत्र कर्तव्यम् ।' इति श्रुत्वा कुट्टन्या बहुस्तन्निवारणाय सा प्रबोधयितुमारेमे । प्रबोध्यमानाऽपि यदा नाबुध्यत तदा कुट्टन्यचिन्तयत् - ' भवत्वनुमतिं करोमि । इयं हि सुकुमारा कियन्तमप्यध्वानं गत्वा शायासाननुभूय स्वयमेव प्रबोधमेष्यति ।' इति विचिन्त्य - ' भवत्वहमपि भवत्या सहैव गमिष्यामि' इत्यनुमतिमदात् । ततो रत्नदत्तेन सह लावण्यसुन्दरी कुट्टनी च गन्तुं प्रववृते । अथ ते शनैः शनैर्गच्छन्तः कियद्भिरप्यहोभिः पूर्णपथकाभिधानं पत्तनमासेदुः । ततो बहिरेव पत्तनस्योपवनभुवि महतश्रुतद्रुमस्याधस्ताद् लावण्यसुन्दर्यु त्सङ्गे शिरो निधाय रत्नदत्तः सुष्वाप । तत्परिचारकेषु च भोजनाद्युपकरणमाहर्तुं पत्तनस्यान्तर्गतेषु कुट्टन्यचिन्तयत्- 'सर्व्वथैव गमने प्रवृत्तेयम् । तत्प्रपञ्चक" मपि विधाय राज्ञे निवेद्य घातयित्वैनमेतां गृहीत्वा स्वनगरं गच्छामि ।' इत्यालोच्य कुसुमानि गृहीत्वा " [1. 106. B] राज्ञा सूरधर्म्मणः सकाशं गत्वा व्यजिज्ञपत्- 'देव ! मम यौवने चतुर्थेऽह्नि स्नातायाः समागमो देवेन सार्धमभवत् । तत्र च दुहिता मे समंज " नि । देवेन यी समुत्पन्ना स कलसुन्दर्येव भवति । सा च ठकेनैकेन ठकयित्वा नीयमाना तिष्ठति । तेनाहं देवं विज्ञमागता । तदत्र देवः प्रमाणम्' इत्याकर्ण्य राजा दाण्डपाशिकमादिदेश'येनास्मद्दुहिता ठकिता स शीघ्रमेव निगृह्यताम्' इत्यादिष्टो दाण्डपाशिकः खपत्ति "भिः सह तत्सविधमगात् । तत्र यावदालोकयति तावल्लावण्य सुन्दर्याः प्रहृष्टायाः स्नेहेनोत्सङ्गे निहितमूर्धानं युवानमतिसुन्दरं पुरुषं शयानमपश्यत् । ततो दण्डपाशिकस्तमवलोक्याचिन्तयत्- 'नूनमनुरागादनेन सह गन्तुं प्रवृत्ता । तन्न ठकितेयमेतेन । असत्येयं कुट्टू"[F.107. A]नी, तद् भवतु यावदयं स्वपिति तावदत्रैव तिष्ठामि प्रबुद्धे तु वृत्तान्तं प्रक्ष्यामि ।' ततो यावद्विलम्बो दाण्डपाशिकस्य समजनि" तावद् राज्ञाभ्यधायि - ' किमिति दण्डपाशिकस्य विलम्बः ? ' ततः कुट्टन्याऽभिहितम् -' देव ! विज्ञप्तमेव मया स यतिमहांष्ठकोऽतस्तेन दाण्डपाशिकोऽपि ठकितः । ततो राज्ञा बहवः सामन्तास्तत्र त्रैष्ये॑न्त ।
(2)
1
२ स । ३ वचमति । ४ सुन्दर्युच्छ । ५ समयनि । ९ दण्ड । १० सुन्दर्या । ११ दण्ड° । १२ दण्ड' । १३ दण्ड° ।
१ व्यः । ८ ठकइत्वा
Jain Education International
For Private & Personal Use Only
(3)
६ य । ७ स । . १४ प्रेष्यन्त ।
www.jainelibrary.org