________________
श्रीभोजदेवविरचिता
यस्याश्च रूपनिष्पादनार्थमिदमुपकरणकदम्बक"मनाददानेनापरमिवोपकरणजातं' किमप्यासादितं भगवता प्रजापतिना । तथा हि - न गृहीतश्चमरीबालभारो, न बर्हिणां बहकला' 'पाः, न मधुकरकुलानि, न शशधरार्धम् , न कनकपट्टशकलानि, नानङ्गसारंटनि(१)द्वयम् , न विकचेन्दीवराणि, न मधुकराकान्तैकदेशानि केतकीदलानि, न मृगीलोचनविलासाः, न पाटलाप्रसूनानि, न मद(?)वीणाकोणरामणीयकम् , न बिम्बीफलानि, न बन्धुजीवकुसुमानि, न विद्रुमग्रन्थयः, न परिपक्कदाडिमीवीजत्विषः, न कोकिलाध्वनयः, न वीणानिक्कणाः, न बन्धूककुसुमलावण्यम् , न विकचकनकचम्पकावदा"[ P. 22. B ] तता, न सरधनुर्व्यापाशयुगलम्, न कन्दलानि, न कम्बवः, न मृणाल्या, न श्यामालताः, न पल्लवितानि(१), न रक्तोत्पलानि, न चक्रवाकमिथुना"नि, न करिकुम्भाः, न सरित्तरङ्गाः, न स्मरधनुालावण्यम्, न मदनरथचक्रनाभयः, न रत्नशिलातलानि, न कनकफलकानि, न रम्भास्त "म्भाः, न द्विरदेन्द्रंकराः, न कोकनदानि, न मुक्तामणयः, न शरत्तारकाः, न द्विरदेन्द्र गतयः, न राजहंसप्रचलितानि । तथाप्याश्चर्यनिधानमद्भुतैकनिधिना विधिनेयमुत्पादिता । अहोऽत्यन्ताद्भुतरूपनिर्माणकौशलं" विधातुः।
या च लावण्यमय्यप्यक्षारा, साधारण्यप्यसाधारणी, स्फटिकमणिपुत्रिकेव सन्निहितोपाधिरागिणी, द्रौपदीव नकुल "प्रिया, प्रावृडिव दर्शिताचिर रुचिः, यामिनीव सकलजनामिलषणीयस्वापा, नियुद्धोद्यतकृष्णमूर्तिरिवानङ्गदा, नेपालभूमिरिव [F.23. A ] मृगमदामोदिनी, उद्यानमेदिनीव रुचिरकलकण्ठोपशोभिता, प्राग्ज्योतिषक्षितिरिव कृष्णागुरुपत्रभङ्गभूषणा, कदाचि[द्] भुजगीव बहु"प्रजागरक्षीवनयना । या च त्रिदशसेनेव कुटिलकेशपाशोपशोभिता, कैलासमेखलेव निरुह्यमा [ना]लकाभिरामा, प्रियजन कथेवाभिलषणीयनासिक्यप्रदेशा, वनलेखेव कमनीयतमालपनसारा, वसुधेव सरसशोणाधरोपशोभिता, नाटकाङ्गस्थितिरिव रम्भोद्भासिनी, हरिश्चन्द्रकथेव प्रथितचारुलोचना, किष्किन्धगुहेव सुग्रीवोद्भासिता, रामायणकथेव प्रख्यातसुबाहुप्रह"स्ता, प्रा. डिव घनस्तननाभिरम्या, छन्दस्थितिरिवोज्वलतनुमध्या, प्रजावनिरिव सदा समजघना; क्रौञ्चगिरिरन्ध्रपद्धतिरिव परिचितराजहंसगतिः, कुरुपाण्डवद्यूतवेलेव प्रवृत्तोरुद्वन्द्वा शृङ्गारमञ्जरीगद्यप्रवृत्तिरिवं सुललितपदा । या सर्वतः प्रसृतस्य ख” [F. 23. B] देहप्रभापटलस्यान्तःस्थिततया मन्दरगिरिमथ्यमानजलमध्यवर्तिनीं श्रियमिवोपहसति, सर्वाङ्गसौन्दर्यावलोकनस्तिमितपक्ष्मपुटतया" निर्निमेषमवलोकयतो मानमानिव विदधाति, नयन अतिसंयोगाविषममवलोकयन्ती भोगिनामप्यद्वितीयां विषमविषमूर्छा-"
जाते। २ °देन्दुकराः। ३ देन्दुगतयः। ४ प्राविडिव। ५ °चिररविः। ६ कठो । • प्रजागार। ८ लिनुचमा । ९ °इन्द्रो। १० °रिववसुललित।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org