Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 660
________________ ध्यायः] गृहस्थाश्रमवर्णनम् । सुधावस्तूनि वक्ष्यामि विशिष्टे गृहमागते। मनश्चक्षुर्मुखं वाचं सौम्यं दद्याश्चतुष्टयम् ॥४ अभ्युत्थानमिहागच्छ पृच्छालापप्रियान्वितः। उपासन मनुब्रज्या कार्याण्येतानि यत्नतः ॥५ ईषद्दानानि चान्यानि भूमिरापस्तृणानि च । पादशौचं तथाभ्यङ्गमाश्रयः शयनन्तथा ॥६ किञ्चिच्चान्न यथाशक्ति नास्यानश्नन् गृहे वसेत् । मृजलं चार्थिने देय मेतान्यपि सदा गृहे ॥७ सन्ध्यास्नानं जपोहोमः स्वाध्यायो देवतार्थनम् । वैश्वदेवं तथातिथ्यमुद्धृतश्चापि शक्तितः ॥८ पितृदेवमनुष्याणां दीनानाथतपस्विनाम् । मातापितगुरूणाञ्च संविभागोयथार्हतः ॥९ एतानि नव कर्माणि विकर्माणि तथा पुनः। अनृतं पारदार्यञ्च तथाभक्ष्यस्य भक्षणम् ॥१० अगम्यागमनापेयपान स्तेयञ्च. हिंसनम् । अश्रौतकर्माचरणं मित्रधर्मवहिष्कृतम् ॥११ नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत् । आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ॥१२.. तपोदानावमानौ च नव गोप्यानि यत्नतः । प्रायोग्यमृणशुद्धिश्च दानाध्ययनविक्रयाः ।।१३ कन्यादानं वृषोत्सर्गो रहः पापमकुत्सनम् । प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तथा ॥१४

Loading...

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700