Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 694
________________ ऽध्यायः] स्तेयप्रायश्चित्तम् । शाकहारी च पुरुषो जायते नीललोचनः। ब्राह्मणाय प्रदद्याद्वै महानीलमणिद्वयम् ।।१८ कन्दमूलस्य हरणाद्ध्वपाणिः प्रजायते । देवतायतनं कार्यमुद्यानं तेन शक्तित:॥१६ सौगन्धिकस्य हरणार्दुर्गन्धाङ्गः प्रजायते। स लक्षमेकं पद्मानां जुहुयाज्जातवेदसि ।।२० दारु(क्षीर)हारी च पुरुषः स्विन्नपाणिः प्रजायते। स दद्याद्विदुषे शुद्धौ काश्मीरजपलद्वयम् ॥२१ विध पुस्तकहारी च किल मूकः प्रजायते । न्यायेतिहासं दद्यात् स ब्राह्मणाय सदक्षिगाम् ।।२२ वस्त्रहारी भवेत् कुष्ठी सम्प्रदद्यात्प्रजापतिम् । हेमनिष्कमितञ्चैव वस्त्रयुग्मं द्विजातये ।।२३ ऊर्गाहारी लोमशः स्यात् स दद्यात् कम्बलान्वितम् । स्वर्गनिष्कमितं हेमवहिं दद्याद्विजातये ।।२४ पट्टसूत्रस्य हरणानिर्लोमा जायते नरः । तेन धेनुः प्रदातव्या विशुद्धयर्थं द्विजन्मने ।२५ औषधस्यापहरणे सूर्यावर्तः प्रजायते । सूर्यायाः प्रदातव्यो मासं देयश्च काञ्चनम् ॥२६ रक्तवस्त्रप्रवालादिडारी स्याद्रक्तवातवान् । सवस्त्रां महिषीं दद्यान्मणिरागसमन्विताम् ।।२७ विप्ररत्नापहारी चाप्यनपत्यः प्रजायते । तेन काय्यं विशुद्धयर्थ महारुद्रजपादिकम् ।।२८

Loading...

Page Navigation
1 ... 692 693 694 695 696 697 698 699 700