Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
६१०
शातातपस्मृतिः। सीसहारी च पुरुषो जायते शीर्षरोगवान् । उपोष्य दिवसं दद्याघृतधेनु विधानतः॥७ दुग्धहारी च पुरुषो जायते बहुमूत्रकः । स दद्याद्दुग्धधेनुश्च ब्राह्मणाय यथाविधि ॥८ दधिचौर्येण पुरुषो जायते मेदवान् यतः । दधिधनुः प्रदातव्या तेन विप्राय शुद्धये ॥ मधुचौरस्तु पुरुषो जायते नेत्ररोगवान् । स दद्यान्मधुधेनुश्च समुपोष्य द्विजातये ॥१० इक्षोविकारहारी च भवेदुदरगुल्मवान् । गुडधेनुः प्रदातव्या तेन तद्दोषशान्तये ॥११ लोहहारी व पुरुषः क—राङ्गः प्रजायते । लोहं पलशतं दद्यादुपोष्य स तु वासरम् ॥१२ तैलचौरस्तु पुरुषो भवेत् कण्डादिपीडितः । उपोष्य स तु विप्राय दद्यात्तैलघटद्वयम् ॥१३ आमान्नहरणाच्चैव दन्तहीनः प्रजायते । स दद्यादश्विनौ हेमनिष्कद्वयविनिर्मितौ ।।१४ पक्वान्नहरणाञ्चैव जिह्वारोगः प्रजायते । गायत्र्याः स जपेल्लक्षं दशांशं जुहुया(यवैः)त्तिलैः ॥१५ फलहारी च पुरुषो जायते व्रणिताङ्गुलिः । नानाफलानामयुतं स दद्याच द्विजन्मने ॥१६ ताम्बूलहरणाश्चैव श्वेतौष्ठः सम्प्रजायते । सदक्षिणं प्रदद्याश्च विद्रुमस्य द्वयं वरम् ॥१७

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699 700