Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ध्यायः] समाधियोगवर्णनम् ।
कुटुम्वैः पञ्चभिभ्यिः षष्ठस्तत्र महत्तरः । देवासुरमनुष्यैस्तु स जेतुं नैव शक्यते ॥१७ वलेन परराष्ट्राणि गृह्णन् शूरस्तु नोच्यते । जितो येनेन्द्रियग्रामः स शूरः कथ्यते बुधैः ।।१८ वहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै । सर्वञ्चैवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥१६ सर्वभावविनिमुक्तः क्षेत्रज्ञ ब्रह्मणि न्यसेत् । एतद्धथानञ्च योगश्च शेषाः स्युग्रन्थविस्तराः॥२० त्यक्ता विषयभोगांश्च मनोनिश्चलतां गतम् । आत्मशक्तिस्वरूपेण समाधिः परिकीर्तितः ॥२१ चतूर्णा सन्निकर्षण पदं यत्तदशाश्वतम् । द्वयोस्तु सन्निकर्षण शाश्वतं ध्रुवमक्षयम् ।।२२ यन्नास्ति सबलोकस्य तदरतीति विरुद्धयते । कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ।।२३ स्वसम्बेद्यं हि तद्ब्रह्म कुमारीमैथुनं यथा । अयोगी नैव जानाति जातान्धोहि यथा घटम् ॥२४ नित्याभ्यसनशीलस्य सुसंवेद्यं हि तद्भवेत् । तत्सूक्ष्मत्वादनिदेश्यं परं ब्रह्म सनातनम् ॥२५ बुधस्त्वाभरणं भावं मनसालोचनं यथा । मन्यते स्त्री च मूखश्च तदेव बहुमन्यते ।।२६ सत्त्वोत्कटाः सुराश्चापि विषयेण वशीकृताः । प्रमादिभिः क्षुद्रसत्वैर्मानुषैरत्र का कथां ॥२७.

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700