Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 672
________________ ध्यायः] संन्यासवर्णनम् । ५८६ ध्यानं शौचं तथा भिक्षा नित्यमेकान्तशीलता । भिक्षोश्चत्वारि कर्माणि पञ्चमो नोपपद्यते ॥३६ तपोजपैः कशीभूतोव्याधितोऽवसथावहः । वृद्धोग्रहगृहीतश्च यश्चान्योविकलेन्द्रियः ।।४० नीरुजश्च युवा चैव भिक्षुर्नावसथावहः । स दूषयति तत्थानं बुधान् पीडयतीति च ॥४१ नीरुजश्च युवा चैव ब्रह्मचर्याद्विनश्यति । ब्रह्मचर्याद्विनष्टस्तु कुलञ्चैव तु नाशयेत् ।।४२ वसन्नावसथे भिक्षुमैथुनं यदि सेवते । तस्यावसथनाथस्य मूलान्यपि निकृन्तति ।।४३ आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत् । किन्तस्यान्येन धर्मेण कृतकृत्योऽभिजायते ॥४४ समितं यद्गृहस्थेन पापमामरणान्तिकम् । स निर्दहति तत् सर्वमेकरात्रोषितोयतिः ॥४५ योगाश्रमपरिश्रान्तं यस्तु भोजयते यतिम् । निखिलं भोजितं तेन त्रैलोक्य सचराचरम् ।। ४६ यस्मिन् देशे वसेद्योगी ध्यानयोगविचक्षणः । सोऽपि देशो भवेत् पूतः किंपुनस्तस्य वान्धवाः ।।४७ द्वैतञ्चैव तथाद्वैत द्वैताद्वैतं तथैव च । न द्वैतं नापि चाद्वैतमित्येतत् परमार्थिकम् ॥ ४८ नाहं नैवान्यसम्बन्धो ब्रह्मभावेन भावितः । ईदृशायामवस्थायामवाप्यं परमं पदम् ।।४६

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700