Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 680
________________ भोजनविषयवर्णनम् । पादुकासनमारूढ़ोगेहात् पश्चगृहं ब्रजेत् । छेदयेत्तस्य पादौ तु धार्मिकः पृथिवीपतिः॥६२ अग्निहोत्री तपस्वी च श्रोत्रियो वेदपारगः । एते वै पादुकान्ति शेषान्दण्डेन ताड़येत् ॥६३ जन्मप्रभृतिसंस्कारे चूड़ान्ते भोजनं नवम् । असपिण्डेन भोक्तव्यं चूड़स्यान्ते विशेषतः॥६४ याचकान्न नवश्राद्धमपि सूतकभोजनम् । नारीप्रथमगर्भेषु भुक्तवा चान्द्रायणं चरेत् ॥६५ अन्यदत्ता तु या कन्या पुनरन्यस्य दीयते । तस्याश्चान्नं न भोक्तव्यं पुनःसा प्रगीयते ॥६६ पूर्वश्च स्रावितोयश्च गर्भोयश्चाप्यसंस्कृतः । द्वितीये गर्भसंस्कारस्तेन शुद्धिविधीयते ॥६७ राजाद्यैर्दशभिर्मासैर्यावत्तिष्ठति गुर्विणी । तावद्रक्षा विधातव्या पुनरन्योविधीयते ॥६८ भर्तुशासनमुल्लङ्घ-थ या च स्त्री विप्रवर्तते । तस्याश्चैव न भोक्तव्यं विज्ञेया कामचारिणी ॥६६ अनपत्या तु या नारी नाश्नीयात्तद्गृहेऽपि वै। अथ भुङ्क्ते तु यो मोहात् पूयसं नरकं व्रजेत् ॥७० स्त्रियाधनन्तु ये मोहादुपजीवन्ति बान्धवाः । स्त्रिया यानानि वासांसि ते पापा यान्त्यधोगतिम् ।।७१ राजानं हरते तेजः शूद्रानं ब्रह्मवर्चसम् । सूतकेषु च यो भुङ्क्ते स भुङ्क्ते पृथिवी मलम् ।।७२ इत्यङ्गिरसा महर्षिणां प्रणीतं धर्मशास्त्रं समाप्तम् ।। समाप्ताचेयं आङ्गिरसस्मृतिः। ॐ तत्सत् ।

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700