Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
शुद्धिवर्णनम्।
५६५ द्वावेतावशुची स्यातां दम्पती शयनङ्गतौ । शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥४० गण्डूषं पादशौचञ्च न कुर्यात् कांस्यभाजने । भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति ॥४१ रजसा शुध्यते नारी नदी वेगेन शुध्यति । भूमौ निःक्षिप्य षण्मासमत्यन्तोपहतं शुचि ॥४२ गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि तु । भस्मना दशभिः शुद्धयत् काकेनोपहते तथा ॥४३ शौचं सौवर्णरूप्याणां वायुनार्केन्दुरश्मिभिः ।।४४ रेतःस्पृष्टं शवस्पृष्टमाविकञ्च न दुष्यति । अद्भिमृदा च तन्मात्रं प्रक्षाल्य च विशुध्यति ॥४५ शुष्कमन्नमविप्रस्य भुक्तवा सप्ताहमृच्छति । अन्नं व्यञ्जनसंयुक्तमर्द्ध मासेन जीर्य्यति ॥४६ पयोदधि च मासेन षण्मासेन घृतं तथा । तैलं सवत्सरेणैव कोष्ठे जीर्य्यति वा नवा ॥४७ यो भुङ्क्ते हि च शूद्रानं मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं मृतः श्वा चाभिजायते ॥४८ शूद्रान्न शूद्रसस्पर्कः शूद्रेण च सहासनम् । शूद्राज्ज्ञानगमः कश्चिस्वलन्तमपि पातयेत् ।।४६ अप्रणामे तु शूद्रेऽपि स्वस्ति यो बदति द्विजः । शूद्रोऽपि नरकं याति ब्राह्मणोऽपि तथैव च ॥५०

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700