Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 677
________________ ५६४ आङ्गिरसस्मृतिः। दण्डादुक्ताद्यदान्येन पुरुषाः प्रहरन्ति गाम् । द्विगुणं गोव्रतं तेषां प्रायश्चित्तं विशोधनम् ।।२६ शृङ्गभने त्वस्थिभङ्गे चर्मनिर्मोचने तथा । दशरात्रं चरेत् कृच्छ्र यावत् स्वस्थोभवेत्तदा ॥३० गोमूत्रेण तु संमिश्रं यावकञ्चोपजायते । एतदेव हितं कृच्छमिदमाङ्गिरसं मतम् ।।३१ असमर्थस्य वालस्य पिता वा यदि वा गुरुः । यमुद्दिश्य चरेद्धर्म पापं तस्य न विद्यते ॥३२ अशीतिर्यस्य वर्षाणि वालोवाप्यूनषोड़शः । प्रायश्चित्तार्द्ध मर्हन्ति स्त्रियो रोगिण एव च ॥३३ मूच्छिते पतिते चापि गवि यष्टिप्रहारिते। गायत्र्यष्टसहस्रन्तु प्रायश्चित्तं विशोधनम् ॥३४ स्नात्वा रजस्वला चैव चतुर्थेऽह्नि विशुध्यति । कुर्य्याद्रजसि निवृत्तेऽनिवृत्ते न कथञ्चन ।।३५ रोगेण यद्रजः स्त्रीणामत्यर्थं हि प्रवर्तते । अशुच्यन्ता न तेन स्युस्तासां वैकारिकं हि तत् ॥३६ साध्वाचारा न तावत् स्याद्रजो यावत् प्रवत्तते । वृत्ते रजसि गम्या स्त्री गृहकर्मणि चैन्द्रिये ॥३७ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ॥३८ रजस्वला यदा स्पृष्टा शुना शूद्रेण चैव हिं। उपोष्य रजनीमेको पञ्चगव्यैन शुभ्यति ॥३६

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700