Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 690
________________ ऽध्यायः] प्रकीर्णरोगाणांप्रायश्चित्तवर्णनम् । ॥ तृतीयोऽध्यायः ॥ अथ प्रकीर्णरोगाणांप्रायश्चित्तम् । सुरापः श्यावदन्तः स्यात् प्राजापत्यन्तरन्तथा । शर्करायास्तुलाः सप्त दद्यात् पापविशुद्धये ॥१ जपित्वा तु महारुद्रं दशांशं जुहुयात्तिलैः । ततोऽभिषेकः कर्तव्यो मन्त्रैर्वरुणदेवतैः ॥२ मद्यपो रक्तपित्ती स्यात्स दद्यात् सर्पिषोघटम् । मधुनोऽर्द्ध घटञ्चैव सहिरण्यं विशुद्धये ॥३ अभक्ष्यभक्षणे चैव जायते कृमिकोदरः। यथावत्तेन शुद्धयर्थमुपोष्यं भीष्मपञ्चकम् ॥४ उदक्यावीक्षितं भुक्ता जायते कृमिलोदरः । गोमूत्रयावकाहारविरात्रेणैव शुद्धयति ॥५ भुक्ता चास्पृश्य संस्पृष्टं जायते कृमिलोदरः । त्रिरात्रं समुपोष्याथ स तत्पापात् प्रमुच्यते ॥६ परान्नविघ्नकरणादजीर्णमभिजायते। लक्षहोमं स कुर्वीत प्रायश्चित्तं यथाविधि ॥७ मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः। प्राजापत्यत्रयं कुर्य्यागोजयेच्च शतं द्विजान् ॥८ विषदः स्याच्छदिरोगी दद्यादरा पयस्विनीः । मार्गहा पादरोगी स्यात् सोऽश्वदानं समाचरेत् ।।

Loading...

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699 700