Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ऽध्यायः
हन्तृक-फलनाशायोपायवर्णनम् । ६०५ ब्रतान्ते मेदनीं दत्वा शृणुयादथ भारतम् । स्त्रीहन्ता चातिसारी स्यादश्वत्थान् रोपयेद्दश ॥३७ दद्याच्च शर्कराधेनु भोजयेच्च शतं द्विजान् । राजहा क्षयरोगी स्यादेवा तस्य च निष्कृतिः ॥३८ गोभूहिरण्यमिष्टान्नजलवस्त्रप्रदानतः। घृतधेनुप्रदानेन तिलधेनुप्रदानतः ॥३६ इत्यादिना क्रमेणैव क्षयरोगः प्रशाम्यति । रक्तादी वैश्यहन्ता जायते स च मानवः ॥४० प्राजापत्यानि चत्वारि सप्त धान्यानि चोत्सृजेत् । दण्डापतानकयुतः शूद्रहन्ता भवेन्नरः ॥४१ प्राजापत्यं सकृञ्चैवं दद्याद्धेनुं सदक्षिणाम् । कारूणाच बधे चैव रूक्षभावः प्रजायते ॥४२ तेन तत्पापशुद्धयर्थं दातव्यो वृषभः सितः । सर्वकार्येष्वसिद्धार्थो गजघाती भवेन्नरः॥४३ प्रासादं कारयित्वा तु गणेशप्रतिमां न्यसेत् । गणनाथस्य मन्त्रस्तु मन्त्री लक्षमितं जपेत् ॥४४ कुलत्थशाकैः पूपैश्च गणशान्तिपुरःसरम् । उष्ट्र विनिहते चैव जायते विकृतस्वरः ।।४५ स तत्पापविशुद्धयर्थ दद्यात् कर्पूरकं फलम् ।।४६ अश्वे विनिहते चैव वक्रतुण्डः प्रजायते । शतं पलानि दद्याच्च चन्दनान्यधनुत्तये ॥४७

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700