Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 687
________________ ६०४ शातातपस्मृतिः। [द्वितीयोस्वसृघाती तु बधिरो नरकान्ते प्रजायते। मूको भ्रातृबधे चैव तस्येयं निष्कृतिः स्मृता ॥२६ सोऽपि पापविशुद्धयर्थ चरेच्चाद्रायणवतम् । व्रतान्ते पुस्तकं दद्यात् सुवर्णफलसंयुतम् ।।२७ इमं मन्त्रं समुच्चार्य ब्रह्माणी तां विसर्जयेत् । सरस्वति ! जगन्मातः ! शब्दब्रह्माधिदेवते ! ॥२८ दुष्कर्मकरणात् पापात् पाहि मां परमेश्वरि । बालघाती च पुरुषो मृतवत्सः प्रजायते ।।२६ ब्राह्मणोद्वाहनञ्चैव कर्त्तव्यं तेन शुद्धये । श्रवणं हरिवंशस्य कर्त्तव्यञ्च यथाविधि ॥३० महारुद्रजपंचैव कारयेच्च यथाविधि । षडङ्गकादशैरुद्ररुद्रः समभिधीयते ॥३१ रुद्रैस्तथैकादशभिर्महारुद्रः प्रकीर्तितः । एकादशभिरेतैस्तु अतिरुद्रश्च कथ्यते ॥३२ जुहुयाच्च दशांशेन दूर्वयायुतसंख्यया । एकादश स्वर्णनिष्काः प्रदातव्याः सदक्षिणाः ॥३३ पलान्येकादश तथा दद्याद्विजानुसारतः। अन्येभ्योऽपि यथाशक्ति द्विजेभ्योदक्षिणांदिशेत् ॥३४ स्नापयेद्दम्पतीः पश्चान्मन्त्रैर्वरुणदेवतैः । आचार्याय प्रदेयानि वस्त्रालङ्करणानि च ॥३५ गोत्रहा पुरुषः कुष्ठी निवंशश्योपजायते । स च पापविशुद्धयर्थ प्राजापत्यशतश्चरेत् ॥३६

Loading...

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700