Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 676
________________ ५६३ नीलवस्त्रादि त्याज्यवर्णनम् । भक्षन् प्रमादतोनीली द्विजातिस्त्व समाहितः । त्रिषु वर्णेषु सामान्यं चान्द्रायणमिति खितम् ।।१८ नीलौरक्तन वस्त्रेण यदन्नमुपनीयते । नोपतिष्ठति दातारं भोक्ता भुङ्क्ते तु किल्विषम् ।।१६ नीलीरक्तेन वस्त्रेण यत्पाके श्रपितं भवेत् । तेन भुक्तेन विप्राणां दिनमेकमजोजनम् ॥२० मृते भर्तरि या नारी नीलीवस्त्रं प्रधारयेत् । भर्ता तु नरकं याति सा नारी तदनन्तरम् ॥२१ नील्या चोपहते क्षेत्रे शस्यं यत्तु प्ररोहति । अभोज्यं तद्विजातीनां भुक्त्वा चान्द्रायणं चरेत् ॥२२ देवद्रोण्यां वृषोत्सर्गे यज्ञे दाने तथैव च । अत्र स्नानं न कर्त्तव्यं दूषिता च वसुन्धरा ॥२३ वापिता यत्र नीली स्यात्तावद्भूम्य शुचिर्भवेत् । यावद्द्वादशवर्षाणि अतऊवं शुचिर्भवेत् ।।२४ भोजने चैव पाने च तथा चौषधभेषजैः । एवं म्रियन्ते या गावः पादमेकं समाचरेत् ॥२५ घण्टाभरणदोषेण यत्र गौर्विनिपीड्यते । चरेदद्धं व्रतं तेषां भूषणाथं हि तत् कृतम् ॥२६ दमने दामने रोधे. अवघाते च वैकते। गवा प्रभवता घातैः पादोनं व्रतमाचरेत् ।।२७ अङ्गुष्ठपर्वमात्रस्तु बाहुमात्रः प्रमाणतः । सपल्लवश्व साप्रश्च दण्डइत्यभिधीयते ।।२८ ३८

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700