Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 674
________________ ॥ अथ ॥ *॥ आङ्गिरसस्मृतिः ॥* -::॥ श्रीगणेशायनमः ॥ अथादौ-प्रायश्चित्तविधानवर्णनम् । गृहाश्रमेषु धर्मेषु वर्णानामनुपूर्वशः । प्रायश्चित्त विधिं दृष्ट्वा अङ्गिरामुनिरब्रवीत् ।।१ अन्त्यानामपि सिद्धान्नं भक्षयित्वा द्विजातयः । चान्द्रं कृच्छ्रे तदर्द्धन्तु ब्रह्मक्षत्र विशां विदुः ॥२ रजकश्चर्मकारश्च नटोवुरुड़ एव च । कैवर्त्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः॥३ अन्त्यजानां गृहे तोयं भाण्डे पर्युषितञ्च यत् । प्रायश्चित्तं यदा पीतं तदेव हि समाचरेत् ॥४ चाण्डालकूपभाण्डेषु त्वज्ञानात् पिवते यदि । प्रायश्चित्त कथं तेषां वर्णे वर्णे विधीयते ॥५ चरेत् सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः । तदर्द्धन्तु चरेद्वैश्यः पादं शूद्रेषु दापयेत् ।।६

Loading...

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700