Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 675
________________ ५६२ आङ्गिरसस्मृतिः। [प्रथमोऽअज्ञानात् पिवते तोयं ब्राह्मणस्त्वन्त्यजातिषु । अहोरात्रोषितोभूत्वा पञ्चगव्येन शुध्यति ॥७ विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कदाचन । आचान्त एव शुध्येत अङ्गिरामुनिरब्रवीत् ।।८ क्षत्रियेण यदा स्पृष्ट उच्छिष्ठेन कदाचन । स्नानं जप्यन्तु कुर्वीत दिनस्यार्द्धन शुध्यति ॥६ वैश्येन तु यदा स्पृष्टः शुना शूद्रेण वा द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ।।१० अनुच्छिष्टेन संस्पृष्ठौ स्नानं येन विधीयते । तेनैवोच्छिष्ठसंस्पृष्टः प्राजापत्यं समाचरेत् ॥११ अत ऊर्ध्व प्रवक्ष्यामि नीली वस्त्रस्य वै विधिम् । स्त्रीणां क्रीडार्थसंयोगे शयनीये न दुष्यति ॥१२ पालने विक्रये चैव तद्वृत्त रूपजीवने । पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रय॑पोहति ॥१३ स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् । वृथा तस्य महायज्ञा नीलोवस्त्रस्य धारणात् ॥१४ नीलीरक्तं यदा वस्त्रमज्ञानेन तु धारयेत् । अहोरात्रोषितोभूत्वा पञ्चगव्येन शुध्यति ॥१५ नीलीदारु यदा भिन्द्याद्ब्राह्मणं वै प्रमादतः । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणञ्चरेत् ॥१६ नीलीवृक्षेण पकन्तु अन्नमश्नाति चेद्विजः । आहार वमनं कृत्वा पञ्चगव्येन शुध्यति ॥१७

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700