SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ध्यायः] समाधियोगवर्णनम् । कुटुम्वैः पञ्चभिभ्यिः षष्ठस्तत्र महत्तरः । देवासुरमनुष्यैस्तु स जेतुं नैव शक्यते ॥१७ वलेन परराष्ट्राणि गृह्णन् शूरस्तु नोच्यते । जितो येनेन्द्रियग्रामः स शूरः कथ्यते बुधैः ।।१८ वहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै । सर्वञ्चैवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥१६ सर्वभावविनिमुक्तः क्षेत्रज्ञ ब्रह्मणि न्यसेत् । एतद्धथानञ्च योगश्च शेषाः स्युग्रन्थविस्तराः॥२० त्यक्ता विषयभोगांश्च मनोनिश्चलतां गतम् । आत्मशक्तिस्वरूपेण समाधिः परिकीर्तितः ॥२१ चतूर्णा सन्निकर्षण पदं यत्तदशाश्वतम् । द्वयोस्तु सन्निकर्षण शाश्वतं ध्रुवमक्षयम् ।।२२ यन्नास्ति सबलोकस्य तदरतीति विरुद्धयते । कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ।।२३ स्वसम्बेद्यं हि तद्ब्रह्म कुमारीमैथुनं यथा । अयोगी नैव जानाति जातान्धोहि यथा घटम् ॥२४ नित्याभ्यसनशीलस्य सुसंवेद्यं हि तद्भवेत् । तत्सूक्ष्मत्वादनिदेश्यं परं ब्रह्म सनातनम् ॥२५ बुधस्त्वाभरणं भावं मनसालोचनं यथा । मन्यते स्त्री च मूखश्च तदेव बहुमन्यते ।।२६ सत्त्वोत्कटाः सुराश्चापि विषयेण वशीकृताः । प्रमादिभिः क्षुद्रसत्वैर्मानुषैरत्र का कथां ॥२७.
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy