________________
ध्यायः] गृहस्थाश्रमवर्णनम् ।
सुधावस्तूनि वक्ष्यामि विशिष्टे गृहमागते। मनश्चक्षुर्मुखं वाचं सौम्यं दद्याश्चतुष्टयम् ॥४ अभ्युत्थानमिहागच्छ पृच्छालापप्रियान्वितः। उपासन मनुब्रज्या कार्याण्येतानि यत्नतः ॥५ ईषद्दानानि चान्यानि भूमिरापस्तृणानि च । पादशौचं तथाभ्यङ्गमाश्रयः शयनन्तथा ॥६ किञ्चिच्चान्न यथाशक्ति नास्यानश्नन् गृहे वसेत् । मृजलं चार्थिने देय मेतान्यपि सदा गृहे ॥७ सन्ध्यास्नानं जपोहोमः स्वाध्यायो देवतार्थनम् । वैश्वदेवं तथातिथ्यमुद्धृतश्चापि शक्तितः ॥८ पितृदेवमनुष्याणां दीनानाथतपस्विनाम् । मातापितगुरूणाञ्च संविभागोयथार्हतः ॥९ एतानि नव कर्माणि विकर्माणि तथा पुनः। अनृतं पारदार्यञ्च तथाभक्ष्यस्य भक्षणम् ॥१० अगम्यागमनापेयपान स्तेयञ्च. हिंसनम् । अश्रौतकर्माचरणं मित्रधर्मवहिष्कृतम् ॥११ नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत् । आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ॥१२.. तपोदानावमानौ च नव गोप्यानि यत्नतः । प्रायोग्यमृणशुद्धिश्च दानाध्ययनविक्रयाः ।।१३ कन्यादानं वृषोत्सर्गो रहः पापमकुत्सनम् । प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तथा ॥१४