SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ दक्षस्मृतिः। [तृतीयोऽअष्टमे लोकयात्रा तु वहिःसन्ध्या ततः पुनः । होमों भोजनकञ्चैव यच्चान्यद्गृहकृत्यकम् ॥५२ कृत्वा चैवं ततः पश्चात् स्वाध्यायं किश्चिदाहरेत् । प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् ।।५३ यामद्वयं शयानोहि ब्रह्मभूयाय कल्पते । नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ॥५४ तथा तथैव कार्याणि न कालस्तु विधीयते । अस्मिन्नेव प्रयुञ्जानो ह्यस्मिन्नेव तु लीयते ॥५५ तस्मात् सर्वप्रयत्नेन कर्त्तव्यं सुखमिच्छता। सर्वत्र मध्यमौ यामौ हुतशेषं हविश्व यत् । भुञ्जानश्च शयानश्च ब्राह्मणो नावसीदति ॥५६ इति दाक्षे धर्मशास्त्रे द्वितीयोऽध्यायः॥ - -*:-. ॥ अथ तृतीयोऽध्यायः ॥ गृहस्थाश्रमवर्णनम्। सुधा नवगृहस्थस्य सद्वदामि नवैव तु । तथैव नव कर्माणि विकर्माणि तथा नव ।।१ प्रच्छन्नानि नवान्यानि प्रकाश्यानि तथा नव । सफलानि नवान्यानि निष्फलानि नवैव तु ॥२ अदेयानि नवान्यानि वस्तुजातानि सर्वदा। नवका नव निर्दिष्टा गृहस्थोन्नतिकारकाः ॥३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy