SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ ध्यायः] गृहस्थाश्रमगुणवर्णनम्। पितृदेवमनुष्याणां कीटानाञ्चोपदिश्यते । देवेश्चैव मनुष्यैश्च तिर्यग्भिश्चोपजीव्यते ॥४१ . गृहस्थः प्रत्यहं यस्मात्तस्माज्येष्ठाश्रमी गृही । त्रयाणामाश्रमाणान्तु गृहस्थो योनिरुच्यते ॥४२ तेनैव सीदमानेन सीदन्तीहेतरे त्रयः। मूलप्राणो भवेत् स्कन्दः स्कान्दाच्छाखाः सपल्लवाः ।।४३ मूलेनैव विनष्टेन सर्वमेतद्विनश्यति । तस्मात् सर्वप्रयत्नेन रक्षितव्यो गृहाश्रमी ॥४४ राज्ञा चान्यै त्रिभिः पूज्यो माननीयश्च सर्वदा । गृहस्थोऽपि क्रियायुक्तो न गृहेण गृहाश्रमी ॥४५ न चैव पुत्रदारेण स्वकर्मपरिवर्जितः। अस्नात्वा चाप्यहुत्वा चाजप्त्वाऽदत्त्वा च मानवः ॥४६ देवादीना मृगी भूत्वा नरकं प्रतिपद्यते। एक एव हि भुक्तेऽन्नमपरोऽन्नेन भुज्यते ॥४७ न भुज्यते स एवैको योभुङ्क्तेऽन्नं ससाक्षिणा । विभागशीलो योनित्यं क्षमायुक्तोदयापरः ॥४८ देवतातिथिभक्तश्च गृहस्थः स तु धार्मिकः । दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः कृतज्ञता ॥४६ एते यस्य गुणाः सन्ति स गृही मुख्य उच्यते । सम्बिभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् ।।५० भुक्ता तु सुखमाखाय तदन्नं परिणामयेत् । इतिहासपुराणायः षष्ठश्च सप्तमं नयेत् ॥५१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy