SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ दक्षस्मृतिः। [द्वितीयोऽ सार्वभौतिकमन्नाचं कर्त्तव्यन्तु विशेषतः । ज्ञानविद्यः प्रदात्यमन्यथा नरकं व्रजेत् ॥३१ स जीवति य एवैकोबहुभिश्चोंपजीव्यते । जीवन्तोमृतकाश्चान्ये य आत्मम्भरयो नराः । वह्वर्थे जीव्यते कश्चित् कुटुम्बार्थे तथा परैः ।।३२ आत्मार्थेऽन्यो न शक्नोति स्वोदरेणापि दुःखितः । दीनानाथविशिष्ठेभ्योदातव्यं भूतिमिच्छता ॥३३ अदत्तदाना जायन्ते परभाग्योपजीविमः । यहदाति विशिष्टेभ्यो यजुहोति दिने दिने ॥३४ तत्तु वित्तमहं मन्ये शेषं कस्यापि रक्षति । चतुर्थे च तथा भागे स्नानाथ मृदमाहरेत् ॥३५ तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले। नित्यं नैमित्तिकं काम्यं त्रिविध स्नानमुच्यते ॥३६ । तेषां मध्ये तु यन्नित्यं तत्पुनर्भिधते त्रिधा। मलापहरण पश्चान्मन्त्रवत्तु जलेस्मृतम् ॥३७ सन्ध्यास्नानमुभाभ्याच स्नानभेदाः प्रकीर्तिताः। मार्जनं जलमध्ये तु प्रणायामोयतस्ततः ॥३८ उपस्थानं ततः पश्चात् साविया जप उच्यते । सविता देवता यस्या मुखमग्निसियास्थितः ॥३६ विश्वामित्र कृषिश्छन्दोगायत्री सा विशिष्यते । पथमे च सथाभागे सम्बिभागीयथार्हतः ।।४०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy