________________
ध्यायः]
वैदिककर्मवर्णनम् । ऋत्विक् पुत्रीगुरुद्घता भागिनेथोऽथ विट्पतिः। एभिरेव हुतं यत्तु तद्ध तं स्वयमेवहि ।।२१ देवकार्य ततः कृत्वा गुरुमङ्गलवीक्षणम् । देवकार्याणि पूर्वाह्न मनुष्याणाञ्च मध्यमे ।।२२ पितृणामपराह्न च काण्येतानि यनतः । पौर्वाह्निकन्तु यत् कर्म यदि तत् सायमाचरेत् ।।२३ न तस्य फलमाप्नोति बन्ध्यास्त्रीमैथुनं यथा । दिवसस्याद्यभागे तु सर्वमेतद्विधीयते ।।२४ द्वितीये च तथाभागे वेदाभ्यासोविधीयते । वेदाभ्यासो हि विप्राणां परमं तप उच्यते ॥२५ ब्रह्मयज्ञः स विशेयः षडङ्गसहितस्तु सः । वेदस्वीकरणं पूर्व विचारोऽभ्यसनं जपः ॥२६ ततोदानश्च शिष्येभ्यो वेदाभ्यासोहि पञ्चधा । समित्पुष्पकुशादीनां स कालः समुदाहृतः ।।२७ तृतीये चैव भागे तु पोष्यवर्गार्थसाधनम् । पिता माता गुरु यो प्रजादीनाः समाश्रिताः ।। अभ्यागतोऽतिथिश्चान्यः पोष्यवर्ग उदाहृतः । ज्ञातिबन्धुजनः क्षीणस्तथानाथः समाश्रितः ॥२६ . अन्येऽप्यधनयुक्ताश्च पोष्यवर्गउदाहृतः । भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ॥३० नरकं पीड़ने चास्य तस्माद्यत्नेन तं भरेत् ।