SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ... दक्षस्मृतिः। द्वितीयोऽउषस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ। प्राजापत्येन तत्तुल्यं महापातकनाशनम् ।।११ प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् । सर्वमहति पूतात्मा प्रातःस्नायी जपादिकम् ।।१२ स्नानादनन्तरं तावदुपस्पर्शनमुच्यते । अनेन तु विधानेन आचान्तः शुचिता मियात् ॥१३ प्रक्षाल्य पादौ हस्तौ च त्रिः पिवेदम्बु वीक्षितम् । संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम् ॥१४ संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् । ततः पादौ समभ्युक्ष्य अङ्गानि समुपस्पृशेत् ।।१५ अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् । अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः ॥१६ कनिष्ठाङ्गुष्ठया नाभिं हृदयञ्च तलेन वै। सर्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् ॥१७ सन्ध्यायाञ्च प्रभाते च मध्याहे च ततः पुनः । सन्ध्यां नोपासते यस्तु ब्राह्मणो हि विशेषतः ॥१८ स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते । सन्ध्याहीनोऽशुचिनित्यमनहः सर्वकर्मसु ॥१६ यदन्यत् कुरुते कर्म न तस्य फलमश्नुते ।। सन्ध्याकर्मावसाने तु स्वयं होमोविधीयते । म्वयंहोमे फलं यत्तु तदन्येन न जायते ॥२०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy