Book Title: Sanskrit Vangamay Kosh Part 02
Author(s): Shreedhar Bhaskar Varneakr
Publisher: Bharatiya Bhasha Parishad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कुल्लूकभट्ट-रचिता मनुटीका सुविश्रुता । तथा स्मृतिविवेकक्ष धर्मपण्डितसम्मतः 1130 1 1 समयप्रदीप-छन्दोगाहिकाऽऽचारादर्शकर्ता
श्रीदत्तोपाध्यायः पितृभक्तिश्राद्धकल्पकर्ता च 1137 11 स्मृतिरत्नाकरो राजनीतिराकरस्तथा । कृत्यचिन्तामणिर्दानवाक्यावलिरसी पुनः 1132 ।। हरिनाथः स्मृतिसारं तं मदनसिंहो हि मदनरत्वं च । कृतवान् विवाहचंद्र स मिसरूमिश्रस्तथा प्रथितम् । टीका सुबोधिनी सा विश्वेश्वरभडविरचिता ख्याता 1133 ।। स्मृतिदुर्गोत्सवः श्राद्धविवेकः शूलपाणिना । श्राद्धशुद्धिविवेकी च कृतौ रुद्रधरेण हि ।। व्रतपद्धतिस्तथा वर्षकृत्यं रुद्रधरोदितम् 1134 ।।
स्मृतिकौमुदी स्मृतिमहार्णवस्तथा । मदनपारिजातोऽपि । तिथिनिर्णयसारोऽसौ रचितः श्रीमदनपालेन 1135 ।। माधवाचार्यवर्येण रचितः कालनिर्णयः । पराशरस्मृतेष्टीका माधवीयेति विश्रुता ।।36 ।। आचाराह्निक-शुद्धिश्राद्ध-व्यवहारकृत्यतीर्थाख्याः । ते द्वैतनीति-शूद्राचार विवादाभिधाः सुविख्याताः 1137।। वाचस्पतिमिश्रेण हि चिन्तामणयः प्रवर्तिता दश ते । तिथि -शुद्धि - द्वैत- महादान- विवाहादिनिर्णयाः पंच । 138 11 वाचस्पतिमिश्रकृता पितृभक्तितरंगिणी प्रथिता । तोडरमल्लविरचितः प्रथितोऽसौ तोडरानन्दः 113911 स्मृतितत्त्वाऽभिधा टीका रघुनन्दन भाषिता । श्रीनृसिंहप्रसादेन कृतः सारस्तथैव च ।14011
वक्रपादान-शुद्धि-श्राद्धसंज्ञ सुविश्रुतम्। गोविन्दानन्दसम्प्रोक्तं कौमुदीनां चतुष्टयम् 114111 सरस्वतीविलासश्च (प्रताप) रुद्रदेवविनिर्मितः । तथा प्रतापमार्तण्डः पण्डितेषु प्रशस्यते ।। 42 ।। पराशरस्मृतेष्टीका ख्याता विद्वन्मनोहरा । तथा मिताक्षरायाश्च विख्याता प्रमिताक्षरा 1143।। वैजयन्ती विष्णुधर्मसूत्रटीका सुविश्रुता। तत्त्वमुक्तावलिर्भाष्यान्विता सा शुद्धिचन्द्रिका | 144 ।। हरिवंशविलासश्च श्राद्धकल्पलता तथा । ख्याता दत्तकमीमांसा नन्दपण्डितनिर्मिता । 145 ।। विवादताण्डवं शुद्रकमलाकरसंज्ञकः । शान्तिरनं तथा पुत्रकमलाकरसंज्ञकः ।। ख्यातो निर्णयसिन्धु कमलाकरनिर्मितः 1146 ।। श्रीनीलकण्ठरचितो विख्यातः स्मृतिभास्करः । व्यवहारतत्त्वमेवं पण्डितेषु प्रशस्यते ।।47 ।। मित्रमिश्रकृतो ग्रन्थः वीरमित्रोदयः श्रुतः । कृतश्चानन्तदेवेन हाष्टांगः स्मृतिकौस्तुभः । 148 ।। ख्यातोऽब्ददीधितिस्तस्य तथा दत्तकदीधितिः । तीर्थाचार-तिथिश्राद्ध प्रायश्चित्तेन्दुशेखराः । 149 ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अशौचनिर्णयक्षाऽपि तथा सापियदीपिका सपिण्डीमंजरी चैव नागोजी भट्टनिर्मिता । 150 11 टीका मिताक्षराया सा लक्ष्मीव्याख्यानसंज्ञका । कृतोपाकृतितत्त्वं च बालंभट्टेन धीमता । धर्मशास्त्रसंग्रहोऽपि तत्कृत सुविश्रुतः । 157 स हि धर्मसिन्धुसार काशीनाथोऽब्रवीदुपाध्यायः । चक्रे विवादभंगार्णवं जगन्नाथ - तर्कपंचास्यः 1 152 11
साहित्यशास्त्रम्
कश्यप - वररुचि-चित्रांगद शेषोतथ्यकामदेवाख्याः । धिषणोपमन्यु पाराशरौपकायनसहस्त्राक्षाः ।। कुबुमार नन्दिकेश्वर पुलस्यनामोतिगर्भसंज्ञाक्ष ख्याताः सुवर्णानाभ प्रचेतायन कुबेरसंज्ञाश्च ।। साहित्यशास्त्रविज्ञा लोके नामैकशेषास्ते । 12 ।। कोहलस्वाति वाल्याच तण्डुशाण्डिल्य दत्तिलाः । विशाखिलः पुष्करश्च धूर्तिलो नारदस्तथा । । नाट्यशास्त्रप्रणेतारः र: भरतात् प्राक्ताना इमे ।।3।। श्रीभरत-दण्डि भामह भट्टोदूमट-भट्टनायकाचार्याः । रुद्रट वामन वाभट वाग्भट-मम्मट जगन्नाथाः ।।4।। विद्याभूषण- विश्वेश्वरपण्डित-महिमभट्ट मुकुलास्ते । आनन्दवर्धन- श्रीकेशवमिश्राख्य- हेमचन्द्राश्च 115 ।। अप्पय्य दीक्षिताच्युतराव श्रीविश्वनाथनामानः । श्रीभोजराज रुय्यक-कुन्तक शौद्धोदनप्रमुखाः 11611 पीयूषवर्ष विद्यानाथी गोविन्द ठकुरश्च तथा । भट्टिह्याभिनवगुप्तः धनंजयो भट्टतोतच 117 ।। जयदेवराजशेखर- विद्याधर- भानुदत्तसंज्ञाश्च । क्षेमेन्द्र धर्मकीर्ति मेधावी चापि रूपगोस्वामी ।। प्रथितः प्रतिहारेन्दुराजः साहित्य - शास्त्रविज्ञेषु ।।8।। भरतोक्तं व्यशास्त्र काव्यादर्शश्च दण्डिनः ।। काव्यालंकारकर्ता च भामहो रुद्रटस्तथा ।। 9 ।। चकार काव्यालंकारसारसंग्रहमुद्भटः । काव्यालंकारसूत्राणां कर्ता श्रीवामनस्तथा 111011 आनन्दवर्धनकृतो ध्वन्यालोकः सुविश्रुतः । भट्टाभिनवगुप्तोक्ता तट्टीका लोचनाऽभिधा ।।1।। भट्टतौतेन रचितं प्रथितं काव्यकौतुकम् प्रसिद्धा काव्यमीमांसा राजशेखरनिर्मिता ।।12।। कृता मुकुलभट्टेन ग्राभिधावत्तिमातृका । श्री भट्टनायककृतः ख्यातो हृदयदर्पणः ।।13।। वक्रोक्तिजीवितं ख्यातं कुन्तकेन विनिर्मितम् । धनंजयेन रचितं प्रथितं दशरूपकम् तट्टीका ह्यवलोकाख्या धनिकेन विनिर्मिता ।।14।। ख्यातो व्यक्तिविवेकः राजानकमहमभट्टसन्धोक्तः । क्षेमेन्द्रविरचितं कविकण्ठाभरणमपि तत् सुविख्यातम् ।।15।। भोजः सरस्वतीकण्ठाभरणं स विनिर्ममौ ।
संस्कृत वाङ्मय कोश ग्रंथ खण्ड / 527
For Private and Personal Use Only

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638