Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth or
Acharya Shri Kailassagar
Gyanmandi
[२] पितृभ्यां मोदमानाभ्यां, बेचरेत्यभिधाऽकृत । तस्याऽर्मकस्य सद्बुद्धे-निधानस्येव भाविनः ॥ ११ ॥ शशाङ्ककलया सार्द्ध, ववृधे प्रतिवासरम् । कुमारः सुधया सिञ्चन् , कौटुम्बिकविलोचने ॥ १२ ॥ कौमारभावमापनः, कलाचार्यसमीपगः । निजबुद्धिप्रभावेण, क्रमशः शास्त्रमादधत ॥१३॥ विद्याविनयसंपन्न, धर्मबुद्धिं विलोक्य तम् । मुमुदे मानसे स्वीये, कलाचार्यो विशेषतः ॥१४॥ छात्रेवन्येषु बहुषु, सोऽपि तस्मिन्मनीषिणि । सफलं स्वश्रमं मेने, पात्रदत्तं हि सत्फलम् ॥ १५ ॥ अथ श्रेष्ठिवरस्तस्मि-नगरे द्वादशव्रती । मंच्छाराममहेभ्यस्य, नथ्थुनामा सुतोऽभवत् ॥ १६ ॥ आजन्मशुद्धचरितः, स्वकर्मनिरतोऽनिशम् । मुनिशुश्रूषणे दक्षो-धर्मकार्यधुरन्धरः ॥१७॥ तीर्थेषु दत्तलचोयो-धर्मतत्चविदांचरः। सर्वत्र ख्यातसत्कीर्तिः, परोपकृतिमान् बभौ ॥ १८॥ युग्मम् ॥ एकदा श्रेष्ठिना तेन, विद्याशालामुपागतः । शिवदाससुतो दृष्टो-जैनधर्मरुचिं दधत ॥१६॥ जैनधर्मोन्नतिकर्ता, बालोऽयमिति बुद्धिमान् । अबालो सुधिया ज्ञात्वा, गृहं निन्ये निजं स तु ॥ २० ॥ स्थित्वा तत्रैव तत्वानि, जैनानि ज्ञातवान्सुधीः । गुरूणां संनिधानेन, द्विचरः शुद्धमानसः ॥ २१ ॥ मेशांनाख्यपुरे वर्षे, विद्याधिगमहेतवे । जग्मिवान्स ततो विद्वान् , प्राज्ञः कः स्वगृहे वसेत् ॥ २२ ॥ श्रीयशोविजयाभिख्य-पाठशालामधिश्रयन् , स्वल्पकालेन सद्भन्थान् , पपाठ बुद्धिमत्तरः ॥ २३ ॥ तत्रैव पाठको भूत्वा, महेम्यैः प्रार्थितः स्वयम् । विनेयान् शिक्षयामास, जैनतत्त्वानि तत्त्वतः ॥२४॥
१ करिष्यति. २ महेशाणा.
For Private And Personal use only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82