Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०]
मोहमान विकारेषु, प्रेम किञ्चिन् न विद्यते । श्रात्मप्रेमोज्ज्वलं मन्त्रं, केचिज्जानन्ति पंडिताः १०५ विकासयन्तु सत्प्रेम, सर्वत्र सर्वदेहिषु । अमृता येन जायन्ते, लोका आत्मस्वभावतः ॥१०६॥ अन्तरात्मा भवेत्प्रेमी, पश्चाद्यातिपरात्मताम् । ज्ञानिषु तारतम्येन, शुद्धप्रेमसमुद्भवः ॥१०७ ।। सर्वजीवोपरिप्रेमा, यस्य जातो न वस्तुतः । तस्योद्धारो भवेन्नैव, विना प्रेम न पात्रता ॥ १०८ ॥ अहिंसा प्रेमयोगेण, भवत्येव न संशयः । गुणाधारमहाप्रेम, सर्वस्वार्पणकारकम् ॥ १०६ ॥ येषु प्रेम भवेत् सत्यं, स्वकीयांस्तान्निबोधत । मौनभावेन कर्तव्यं, भवत्येव न संशयः ॥ ११० ॥ संसारिणां विनाप्रेम, भवेद्दुःखं पदे पदे । सर्वसम्बन्धशून्यत्वं, शून्यत्वंचात्मनस्तथा ॥ १११ ॥ सत्यप्रेमविना जीवा - बुडन्ति मोहसागरे । शुद्ध प्रेमाऽर्हतांसेवा, कर्तव्याऽतोविवेकतः ||११२॥ मनोवाक्काययोगाना–मर्पणं प्रेमदेहिनाम् । परस्परं भवत्येव, सर्वत्र सर्वथा सदा ॥ ११३ ॥ एकान्तं नैवखेषु, प्रतिज्ञासु न वर्त्तते । ज्ञानी जानाति हृत्प्रेम, प्रेमी प्रेम परीचते ॥११४॥ हावभावेषु नैकान्तं, नैकान्तं मिष्टभाषणे । प्रेम नैसर्गिकं नृणा - मगम्यं वर्त्तते स्वयम् ॥११५॥ एकान्तेन न विद्वत्सु, सत्यप्रेमोद्भवो भवेत् । पूर्वभवस्य संस्कारा - लोकेषु तस्य संभवः ॥ ११६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82