Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[34]
साऽहसाऽह भवत् साऽह, भवत् तत्त्वमासे स्वयम्। त्वमेवाऽहं विकल्पेन, विकल्पप्रेम जायते॥ व्यक्ताव्यक्तं भवेत्प्रेम, व्यक्ताव्यक्तात्म भावतः । शुद्धप्रेमात्म चारित्रं, सत्यभक्तस्य लभ्यते ॥ प्रेमीप्रेमैव जानाति यत्र तत्र यदा तदा । साचि परस्परं चित्तं, प्रेमिणां जायते स्वतः ॥ ३२३ ॥ शुद्धोपयोगप्रेमैव कर्त्तव्यो भक्तयोगिभिः । आत्मशुद्धोपयोगस्तु शुद्ध प्रेमैव बोधत ॥ ३२४॥ शुद्धप्रेमाग्निपकानां मालिन्यं नैव जायते । निपातो न भवेत्तेषां, यादृक् तादृक् प्रवृत्तितः॥ ३२५॥ शुद्ध प्रेमैव संबोध्यं, स्वात्मलालन जीवनम् । भक्तसंगेन संप्राप्यं, पूर्णानन्द स्वरूपकम् ॥ ३२६॥ शुद्धप्रेम न संप्राप्यं, देहाध्याससमृतिं विना । नामरूपादिमोहस्य, नाशेन लभ्यते जनैः । ३२७ | संत्यक्तसर्वसंकल्पो - देहाध्यासविवर्जितः । सर्वकर्माणि कुर्वन्सन्, प्रेमात्मा नैव लिप्यते ॥ यदाकर्मस्वनासक्त-इन्द्रियार्थेषु सर्वथा । श्रहं ममत्व संत्यागी, शुद्धप्रेमी तदोच्यते ॥ ३२६ ॥ कर्त्तव्येष्वधिकारोऽस्ति, प्रेमात्मनां स्वभावतः । अप्रेमात्मा न निर्लेपो-भवत्येव प्रभोर्मतः । ३३० प्रेमतः सर्वकर्त्तव्य - सामर्थ्यं जायते हृदि । अनन्तवीर्यसद्रूपं, प्रेमकर्मकरं मतम् ॥ ३३१ ॥ सर्वयज्ञस्वरूपोऽस्ति, प्रेमयज्ञः सतांमतः । प्रेमयज्ञे निमग्नाना - मन्ययज्ञो न विद्यते ॥ ३३२ ॥
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82