Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir [३०] कामस्य मुख्यता यत्र, युद्धंच दुष्टवैरिषु । देहेन्द्रियादि भोगानां, सौख्यं प्रकृतिधर्मतः ॥३४५॥ हिंसालीकादिदोषाणां, प्रवृत्तिर्मुख्य भावतः। यमादीनाम भावेन,देव गुर्वादि पूजनम् ॥३४६॥ स्वार्थार्थ सर्व कर्माणि, कर्त्तव्यानि सुखाप्तये । अज्ञानमोह दोषायै-जीवनं यत्र देहिनाम्॥३४७॥ द्वितीयायां फलाशाया-मुख्यता कामभोगता।साधूनां संगतेरिच्छा, योगः किंचित्प्रजायते॥ देहप्राणादितो भिन्न-आत्माऽस्ति देहसंस्थितः। इत्येवं ज्ञायते किंचित् , तत्त्वानां गुरु संनिधौ ॥ स्वार्थार्थं सर्व कार्याणां, प्रवृत्तिभेंदबुद्धितः। पतिपत्न्यादि सम्बन्धाः, कामरागादिपूर्वकाः।३५०।। लौकिकाचार नीतीनां, सुखायपालनं भवेत् । दया दाक्षिण्यसञ्चारः किञ्चित्किञ्चित्प्रजायते ॥ आत्मज्ञानाद्यभावेन, देहादीनां प्ररक्षणम्। बाह्य देहेन संबन्धो-नच रागेण रागिणाम् ॥३५२॥ तृतीयायां भवेदन्त-श्चित्तरागप्रसन्नता । प्रेमिणां गौणभावेन, संबन्धःप्रेमिदेहिषु ॥३५३॥ मुख्यभावेन देहस्य, भोग सौख्य प्रवृत्तयः। आत्मनो जडवस्तूनां,सुखे मिश्र प्रवृत्तयः॥३५॥ प्रकृतीनां बलेनैव, यत्र बाह्य प्रवृत्तयः । देवादिषु भवेत्प्रेम, गौणभावेन रागिणाम् ॥३५५॥ मिश्रबुद्धिर्भवेद् यत्र, ब्रह्मज्ञानं न जायते। तथापि जैन शास्त्राणां, स्वाध्यायादि प्रवृत्तयः॥३५६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82