Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
[४] शुद्धानुभवसत्प्रीत्यां, नास्ति किञ्चित् प्रयोजनम्। नयप्रमाणनिक्षेप-बुद्धिवादस्य वस्तुतः॥ नचतर्कादिभिः प्रेम, जायते भक्तदेहिनाम् । तर्कवादलयेनैव, शुद्धप्रेम प्रजायते ॥५३८॥ सर्वजातिभयं नास्ति, शुद्धप्रेमणि योगिनाम् । संति नैव कषायाश्च, मिथ्याबुद्धिर्न वर्त्तते ॥ निर्विकल्पात्मरूपस्य, दर्शनं प्रेमभक्तितः। जायते पूर्णभक्तानां, तद्दशा नैव गुप्यते॥५४०॥ शुद्धप्रेमसमा शक्ति-विद्यते न जगत्रये। यस्य शक्त्या भवेत् सेवा, विश्वस्य सर्वहोमतः॥ शुद्धप्रेमसमं मंत्र, यंत्रतंत्रं न विद्यते । व्यापकं विश्वसत्प्रेम, ब्रह्मप्रेमेव कथ्यते ॥ ५४२ ॥ जीवाजीवादितत्त्वज्ञः, आन्तरप्रेमयोगतः। मृत्युकालेऽपि वीरस्य, स्मृतेर्भक्तः शिवं व्रजेत् ॥ शुद्धात्मप्रेम कुर्वन्तु, भक्ताः प्रेमिसमागमात् । महावीरस्य भक्तानां, तत्प्रेमैव परंतपः ॥ महावीरोपरिप्रेम-मात्रं सर्वं यमादिकं । तद्ध्यानं तत्समाधिश्च, लययोगो भवेत्ततः ॥५४५॥ अभेदप्रेमयोगेन, मानवपशुपक्षिणाम् । देहोत्सर्गात्मिका सेवा, जायते दुःखनाशिका ॥५४६॥ अभेदः सर्वजीवेषु, भवेन्निर्भेदरागतः। पश्चात् सर्वत्र शुद्धात्म-वीर एव प्रदृश्यते ॥ ५४७ ॥ ब्रह्मज्ञानान्महत्प्रेम, जायते दिव्यदेहिनाम् । आन्तरिकसमुत्क्रान्ति-र्जायते च प्रतिक्षणम् ॥
For Private And Personal use only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82