Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyomandi
A
[५४ ] महावीरस्य भक्तानां, नराणां योषितां शिवम्। भवत्येवकलौ प्रान्ते, तत्र किञ्चिन्न संशयः॥ महावीरस्य वृत्तान्त-गीतस्तुत्यादिभिर्जनैः। कर्तव्या नवधा भक्ति-निश्चयव्यवहारतः ६३४ महावीरप्रभुःसेव्य,-एकएव सनातनः। महापापात्मनां मुक्ति, ददात्येव स्वभावतः ॥६३५॥ आत्मानः श्रीमहावीराः, सर्वेषां सत्तया सदा। शुद्धात्मप्रेमतस्तेस्यु-र्व्यक्तितः परमेश्वराः ॥ महावीरोपरिप्रेम-कारिणां भक्तदेहिनाम् । नैव विघ्नादि संपातो-भवत्येव सुभक्तितः ॥६३७॥ महावीरस्य नामादि-प्रेमिणां भक्तदेहिनाम् । अति शीघ्रतया मुक्ति-र्जायते नान्यथा कदा॥ प्रेमामृतमयं विश्वं, दृश्यते प्रेमदृष्टितः। प्रेमज्योतिर्मयं विश्वं, प्रेमदृष्ट्या विलोक्यते ॥६३९॥ जैनधर्मे रुचिर्यस्य, तस्मै किं रोचतेऽपरम् ! तृषितः स्वर्णदीतीरे. कूपं वांच्छति कः सुधीः१।६४०॥ यस्यजैनोपरिप्रेम, जैनधर्मे च सर्वथा । वर्त्तते स्वात्मभोगेन, तस्य मुक्तिर्न संशयः॥६४१॥ वीरभक्तिर्जनैः साध्या, सर्वकल्याणकोत्सवैः। महावीरचरित्रस्य, श्रवणात् प्रेमवान् भवेत् ॥ परब्रह्म महावीरः, सर्वज्ञपरमेश्वरः। तस्मिन् विश्वासयोगेन, शुद्धप्रेम प्रजायते ॥ ६४३ ॥ सर्वद्रव्यजगच्छेष्ठ-कर्ता हर्ता प्रभुः स्वयम् । वीरो यस्य हृदि व्यक्तः, शुद्धप्रेमी स उच्यते॥
AAAAA
For Private And Personal use only

Page Navigation
1 ... 75 76 77 78 79 80 81 82