Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सर्वभयप्रसंगेषु, महावीरस्य जापतः । यस्यात्मा निर्भयो भाति, तस्य प्रेमविशुद्धता ।५६७। भीतिरूपं न यस्याऽस्ति, किञ्चिदपि जगत्रये। कामादि वासनामुक्तो-वीरः स एव वीर्यवान् ५६८ आत्मा वीरोऽस्ति लोकानां, सर्वपापाऽपहारकः । अतो जीवाःप्रयत्नेन भवन्तु वीररागिणः५९६ महावीरस्य शरणं, व्रजन्तु सर्वदेहिनः । वीरवीरेति जापेन, जीवन्तु रसयोगतः॥ ६०० ॥ विचाराचारलालित्यं, शुद्धप्रेमरसात्मकम् । शुद्धप्रेमात्मनां स्वच्छं, जायते वीरजापतः॥६०१॥ साकारो देहयोगेन, निराकारः स्वरूपतः। महावीरो हृदि ध्येयः, शुद्धप्रेममयैर्जनैः ॥ ६०२ ॥ निराकारादपि श्रेष्ठो-वीरः साकाररूपवान्। प्रभोः साकाररूपेण, विश्वोद्धारो भवेद्रयात्।६०३। पूर्णानन्तोपकारस्तु, देशनाद्यैर्भवेद्यतः। अतः साकारवीरस्य, श्रेयस्ता चोपकारता ॥६०४॥ आकारः पुद्गगलैर्योगात् , सतु प्रकृतिरुच्यते। प्रकृतिमन्तरा कोऽपि, नास्ति विश्वोपकारकः प्रकृतिमन्तरा कोऽपि, प्रकृत्या न विमुच्यते। परस्परोपकारस्तु,साकारात् सर्वदेहिनाम् ।६०६। अतोऽनन्तगुणश्रेष्ठो-वीरः साकाररूपवान्। गेयः पूज्यः सदाध्येयः,प्रेमिभिरात्मरूपकः॥६०७॥ निराकारो महावीरः पूर्णशुद्धोपयोगिभिः। देहस्थ आन्तरः पूर्णः, प्राप्यते व्यापको महान्।६०८|
[५१]
For Private And Personal use only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82