Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir कर्मणा किंच यज्ञेन, किं विवादेन बाह्यतः?। परब्रह्ममहावीरं, प्रेम्णा भजतमानवाः?॥४५३॥ जैनधर्म महावीरं गुरुं च पूर्णरागतः। भज श्रद्धाबलेनैव, सर्वेष्वैक्यं विभावय ॥ ४५४ ॥ भवस्य हेतवो ये ये, ते ते मोक्षस्य हेतवः। भवन्त्यपेक्षया सत्य-प्रेमयुक्तमनीषिणाम् ।४५५ शुद्धप्रेमात्मनोध्यानं, भवत्येव न संशयः । शुद्धात्मप्रेमलीनस्य, समाधिः सततंभवेत् ॥४५६॥ महावीरो परिप्रेम्णा, लीनानां हि समाधयः। अहर्निशं भवन्त्येव, यत्रतत्र यदा तदा ।४५७। उच्चनीचादिभेदास्तु, प्रेमौदार्य विनाभुवि। प्रेमौदार्य विनाविश्वे, कदापिनैवशान्तिता॥४५८ प्रेमौदार्य महादानं, प्रेमौदार्य महत्तपः। प्रेमौदार्य महा भक्तिः, प्रेमौदार्य शुभार्जवम् ।४५६।। ज्ञानादिसर्वयोगेषु, रसः सत्प्रेम वर्त्तते । अतःसत्प्रेमयोगेन, हृदि व्यक्तः प्रभुभवेत् ॥४६०॥ मधुरंप्रियहृयंयत् , तत्प्रेमवानुभूयते। ज्ञानिना व्यक्तभावेन, वैखर्या नैव वर्ण्यते ॥४६१॥ आनन्दोल्लसितं चित्तं, रोगादौ यस्य विद्यते।कीर्त्यादि वासनातीतः, शुद्धप्रेमी स उच्यते।४६२।। गालीदानादितो रोषो-यस्य चित्ते न जायते। भय दुःखादि वृत्तीनां, जेता प्रेमी महान् स्मृतः॥ प्रेमाग्नौ स्वार्थ होमस्तु, यत्रनृणां परस्परम्। जायते तत्र शुद्धात्म-व्यक्तीभावो मनीषिणाम् ४६४/ [ ३९ ] For Private And Personal use only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82