Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir - [.. कृत्रिम प्रेमचेष्टाभि-धू विश्वं प्रवंचितम्।सावधानतयाभाव्यं, शुद्धात्म प्रेमधारकैः ॥४६५॥ शीताच्छीततरंप्रेम-मिष्टनिद्रा समं शुभम् । प्रेमाग्नौ पतनं याति, प्रेमी शलभवद् रयात्॥४६॥ | संज्वलत्परमप्रेम, हृदि यस्य निरंतरम् । तस्य किं कर्मकाण्डेन, बाह्यशौचेन तस्य किम् ।४६७४ | जलेऽरण्ये स्थलेद्वीपे, दिनेरात्रौ च देहिनाम्। भक्त्यारक्षेन् महावीरो-जैनेन्द्रः परमेश्वरः॥४६८॥ दोषाःसर्वे गुणायन्ते, वीरस्य प्रेमिणां खयम्।दुष्टवृत्ति विजेतारो-जैनाभक्ताःसुरागिणः।४६६। शुद्धात्मप्रेमि जैनानां, जन्ममृत्युनविद्यते। तेषां कर्माणि मोक्षाय, भवन्ति शुद्धबुद्धितः। ४७०॥ ॥ नपुंसक समास्ते स्युः,प्रेमिणो नाममात्रतः। नामरूपादिके सक्ता-धैर्यशौर्य पराङ्मुखाः ।४७१। वीरप्रेमावधूतानां, प्रारब्ध कर्मवेदिनाम्।साक्षिणांसुखदुःखेषु,मुक्तिःसाक्षात्प्रभासते॥१७॥ आत्मा साक्षितया यस्य, सर्वदृश्यादि कर्मसु।शुद्धप्रेम्णा भवेत्तस्य, सिद्धता मुक्तिरूपिणी ४७३|| वीरवीति सज्जायः, सर्वजाप शिरोमणिः। महावीरोति मंत्रेषु, मंत्रःसर्वार्थसाधकः॥४७४॥ . मृत्युकाले महावीर-जापो मुक्तिप्रदःशुभः। घोरातिघोर कर्माणि, नाशयेत्प्रेमयोगिनाम् ४७५ शुद्धप्रेम्णा महावीर-मयः प्रेमीभवेद्धवम्।बहिरन्तर्महावीरं, विनाकिञ्चिन्न पश्यति ॥४७६॥ anAAAAAAAAAAAAAAAAAAPre - For Private And Personal use only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82