Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३२] देहिनां सर्वदोषाणां दर्शनं च प्रकाशनम् । प्राणान्ते विद्यते नैव, गुणानां वर्णनं तथा ॥ ३६६ ॥ प्रारब्धकर्म भोक्तृत्वं यमादीनां प्रपालनम् । खार्पणं जैनधर्माय देवाय गुरवे तथा ॥३७०॥ जैनधर्मस्य स्वीकारः, स्वात्मभोगेन पालनम् । जैनधर्म प्रचाराय कलौप्राणादि दानता ॥ ३७१ ॥ प्रशस्याचारनीत्यादि - पालनं शास्त्रयुक्तितः । देवगुर्वादिसंसेवा, वर्णधर्मादिपालनम् ॥३७२॥ नामरूपादि संमोहो-धर्म्य कामोदयस्तथा । देहात्माध्यासताकिञ्चित्, कषायाणां समुद्भवः ३७३ सत्यप्रेमोदयो यत्र, प्रेमिणांहि परस्परम् । भवेद् बुद्धिःस्थिरा शुद्धा, परात्माभिमुखा जनाः ३७४॥ व्यावहारिक संबन्धे, शुद्धप्रेम प्रजायते । काम्या भवन्ति निष्काम्याः, पदार्था यत्र वस्तुतः। ३७५|| प्रेमास्ति निन्दके नैव, न तथा दोषदर्शिषु । निर्दयेषु नवै प्रेम, तथा प्रेमविरोधिषु ॥ ३७६ ॥ गुरुशिष्यादि संबंधाः, सत्यप्रेममयाः शुभाः । पितृपुत्रादि संबंधाः, परस्परोपकारकाः ॥ ३७७॥ त्यागिनां गृहिणां धर्माः, सत्यप्रेममयाः सदा । सदाचारः स्वभावेन, दयादान प्रवृत्तयः ॥ ३७८ ॥ आत्मवत्सर्वजीवेषु, सत्यप्रेमोद्भवो भवेत्। आत्मा विश्वमयः प्रेम्णा, भाति यत्र स्वभावतः ३७६ सोऽहं सोऽहं भवेत् साऽहं, प्रेमिणां च परस्परम् । सर्वभोगेषु निर्लेपः, सत्प्रेमी सर्वकर्मकृत् ॥३८० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82