Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradisana Kendra www.kobatorg Acharya Shri Kailassagarsuri Gyanmandit आत्मानुभवमोक्षोऽत्र, भाषितंपरिभाषया । अप्रमत्तगुणस्थानं, यावत् भक्तिमहत्तया ॥४०॥ अप्रमत्तदशाशुद्ध-प्रेमोवं पूर्णशुद्धता । जायते तीर्थ देवानां, केवलज्ञानयोगतः ॥ ४०६ ॥ अष्टम्यां शुक्लयोगेन, शुद्धचारित्रयोगिनः। घातिकर्मक्षयान्मोक्षः, शुद्धपर्यायवान् भवेत् ॥ अष्टम्यां तीर्थकृद्देवः, केवली विश्वदेशकः । परमात्मा जिनेन्द्रः स-जायते विश्वपावकः॥४०८॥ सर्वाशेन भवेद् जीवन्-मुक्तः सर्वज्ञ योगिराट्।अष्टमी भूमिमुल्लंध्य, भवेत् सिद्धो निरञ्जनः४०६) परब्रह्ममहावीरे, तन्मया प्रेमभावतः । पश्यन्ति ते द्वयोरैक्यं, मुक्ता भवन्ति सत्त्वरम् ॥४१०॥ धनपुष्पादिना नैव, प्रभुप्राप्तिः कदाचन । प्रभुप्राप्तिः परप्रेम्णा, प्रभुजीवन जीविनाम् ॥४११॥ महावीरस्य भक्तानां, प्रेमिणां शुद्ध निश्चयात्। नैवजातिस्तथालिङ्गं, नामरूपे न वेषता॥४१२॥ गुरुरेव प्रभुः साक्षात्, प्रभुरेव गुरुः स्वयम्। प्रभुरूपं जगत् सर्व-मितिप्रेमी विलोकते ॥४१३॥ भक्तानां रोदने हास्ये दिव्यानन्दोद्भवःस्फुटः।पूज्यानामान्तरंबाह्य-मिष्टं स्यात्प्रेमदेहिनाम् सद्गुरोर्जन्म वृत्तान्त स्थानादिकं सदा प्रियम्। जायतेप्रेमिभक्तानां, यत्रतत्र स्वभावतः॥४१५॥ जीवने न स्पृहाक्रिश्चित्, मृत्यो तिर्नजायते।भक्तानां वस्त्रवद्देह-धारणत्यजनं तथा॥४१६॥ [३५] For Private And Personal use only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82