Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi सर्वदेवेश्वरोवीरो-विनाप्रेम न रज्यति। अतः सत्प्रेम निष्कामं, प्रकाशयन्तु मानवाः ॥११७॥ ॐअहं प्रेमरूपाय, नमो वीराय तायिने। प्रभुप्राप्तिःकलौ प्रेम्णा, सत्यं तथ्यं वदाम्यहम् ॥११॥ वार्ता कुर्वन्ति चित्तानि, मौनेन यत्र जल्पनम्। नम्रीभूताः सदात्मानो-भवन्ति प्रेमशक्तितः॥११९/ कामभोगादिचेष्टासु, प्रेमशब्दोपयोगिता।कृता मूढजनैर्मोहा-द्धा हा?? तैलुण्टितंजगत्॥१२० कामोदयो भवेन्मोहात् , पुवेदादिप्रचारकः। पुंस्कामादिवियोगे तु, भवेत्प्रेमोदयो हृदि ॥१२१॥ प्रेमैवपरमं तेजः, सर्वत्रव्यापकं परम् । तल्लीनः सर्ववृत्तीनां, जेता भवति सर्वथा ।। १२२ ॥ शुद्धात्मा प्रेमशब्देन, वाच्य आनन्द रूपकः।प्रेमशब्दस्य वाच्यत्वं, ज्ञातव्यं नैव मैथुने॥१२३॥ मैथुनं न सदा प्रेयःक्षणिक कामवृत्तिजम्। आत्मरूपं भवेन्नित्यं, प्रेम सम्मेलनंपरम्॥ १२४॥ मन्मयस्तन्मयोभावो-मत्त दविनिर्गतः। अलौकिकं भवेत्प्रेम, वाचातीतं समाधिजम्।१२५॥ अहंस्वं वृत्तिभावाना-माविर्भावो न जायते। परप्रेम भवेत्तत्र, पूर्णानदस्य भोगतः ॥ १२६ ॥ पूर्णानन्देन पूर्णत्वं, प्रेमाऽवधूतयोगिनः । प्रेमाऽवधूतचेष्टासु, निर्दोषत्वं स्वभावतः ॥१२७॥ आकर्षकंमहाप्रेम्णि, पूर्णवीर्यमलौकिकम् । संवेद्यं प्रेमिभिः पूर्ण, यत्र तत्र यदा तदा ॥१२८॥ [११] For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82