Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobauhoto Acharya Shri Kailassagersuri Gyanmandir ..........wwwmummonwearAAwar प्रेम्णा प्रियं जगत्सर्व, पश्यन्तु प्रेमयोगिनः। रागाऽभावाद्विरागत्वं, तदा संजायते सताम् ॥६॥ भवन्तु प्रेमिणो लोका-भवन्तु नैव मोहिनः। शुद्ध प्रेमाऽमृतं पीत्वा, जीवन्तु विश्वजीवना।६४] परात्मैव भवेच्छुद्ध-प्रेम विश्वस्य जीवकः। प्रभुप्रेम विदित्वैवं, भवन्तु विश्वजीवनाः ॥१५॥ आत्मैव परमात्माऽस्ति, प्रेमयोगी प्रभुर्महान् । देहस्थोऽपि न यो देही, तं सर्वत्र विलोकय ॥६६॥ यस्मिन्सति प्रियं सर्व-मप्रियं यदभावतः। पश्यन्तु तं प्रियं लोका-आत्मानं प्रेमरूपकं ॥१७॥ आत्मनो नवधा भक्तिं, प्रेमरूपां सनातनीम् । कुर्वन्तु प्रेमिणो बाह्या-मान्तरां सर्वशक्तितः॥६८ आत्मानं पुरुषं विद्धि, प्रकृति तु स्त्रियं शुभाम् । प्रकृतिःप्रीतिरूपेण, विश्वात्मन्येव संवसेत्॥६६) सर्वजीवेषु सौन्दर्य-माकर्षकं विराजते । तत्तु प्रेमैव संबोध्य भवन्तु प्रेमिणो जनाः॥ १०॥ | सर्वत्र विलसद्यत्तु, सौन्दर्य प्रेमजीवनम्।व्यक्तं कुर्वन्तु भोलोकाः? आत्मज्ञानेन तद्धदि। १०१ भाव एव महाप्रेम, रुचिरेव न संशयः। गुणस्थानाऽधिरोहेषु, प्रेमैव प्रगतिप्रदः ॥ १०२ ॥ शुद्धभावो भवेत्सद्यः, शुद्धप्रेमैकभावतः । आत्मरमणरूपेण, शुद्धप्रेमैव बोधत ॥ १०३ ॥ लसत्यनेकरूपेण, आनन्दः सर्वदेहिषु । हर्षोल्लासादिरूपेण, सर्वत्र ब्रह्ममूर्तिमत् ॥ १०४ ॥ [९] ene For Private And Personal use only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82