Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir omen M www.newsairinIRATRAILanAAII मनोवाकायसंमेलः, सत्यप्रेम्णा परस्परम् । सर्वत्र सत्यलोकानां, जायते नैव संशयः ॥६६॥ | मनोवाकाययोगाना-मैक्यं नृणां परस्परम् । दिव्यस्वर्गस्य संप्राप्तिः, प्रेम्णाऽत्र भवति स्वयम् पारिणामिकभावस्तु, शुद्धप्रेमेव देहिनाम् । चारित्रमान्तरं ज्ञेयं, प्रेमैव रसनायकैः ॥७१॥ आनन्दं परमप्रेम, रागद्वेषविवर्जितम् । पूर्णरसं तु सत्प्रेम, प्राप्याऽन्यन्नावशिष्यते ॥७२॥ दृष्ट्वा परस्परं नृणां, यत्सुखं जायते हृदि । प्रेमैव तत्तु संबोध्यं, निरपेक्षं सदा भवम् ॥७३॥ शुद्धप्रेमरसः स्वात्मा, यं प्राप्य प्रेमयोगिनः। आनन्दाऽद्वैतभावेन, तिष्ठन्ति निर्भयाः सदा॥७४॥ उत्तिष्ठत जनाः? प्रेम्णा, सर्वत्र प्रेमभावनाम्। भावयन्तु विवेकेन, सर्वमङ्गलदायिकाम् ॥७॥ शुद्धात्मैव महाप्रेम, ज्ञायते येन योगिना । तेन प्राप्तं जगत्सर्व, विश्वब्रह्मविलोकिना ॥७६॥ पूर्णप्रेममयं ब्रह्म, जानन्ति सव्यपेक्षया। योगिन आत्मभावेन, साकारं च निरञ्जनम् ॥७॥ प्रेमरूपं जगत्सर्व, पश्यन्तु प्रेमयोगिनः। नाऽप्रियं विद्यते किञ्चि-च्छुद्धप्रेमात्मयोगिनाम् ७८ सर्व प्रियं सतां हृत्सु, नाऽप्रियाः केऽपि देहिनः। प्रेमामिपक्कलोकानां,दशेयं जायते स्वतः।।७।। मनोवाकाययोगेषु, प्रेमावि वयोगतः। प्रभुरूपं जगत्सर्वं, दृश्यतेऽनुभवः स्वयम् ॥ ८० ॥ [७] For Private And Personal use only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82