Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॐ श्रई श्री महावीरायनमः श्रीमद् बुद्धिसागरसूरीश्वर विरचिताश्रीप्रेमगीता प्रारभ्यते ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रणम्य श्रीमहावीर, लोकानां हितकाम्यया । शुद्धप्रेमस्वरूपं यत्, किञ्चिद् वच्मि विवेकतः ॥ १॥ यत्रात्मा दृश्यते शुद्धः, सच्चिदानन्दलक्षणः । आसक्ति यंत्र नैवाऽस्ति, शुद्धप्रेमाऽस्ति तत्र हि । २ । सर्वजातीयदेहेषु, जीवा देवाः स्वभावतः । तत्सार्द्धमात्मवत प्रेम, पूर्णानन्दप्रकाशकम् ॥३॥ जिनेन्द्राः सर्वजीवाःस्यु - स्तत्रात्मैक्येन वर्त्तनम् । परप्रेम विबोद्धव्यं, शुद्ध ब्रह्मरसात्मकम् ॥४॥ कलौ प्रेममयो धर्मः, सर्वत्र मुक्तिदायकः । रागेण संयमो बोध्य-श्चारित्रिणामपि ध्रुवम् ॥ ५ ॥ प्रेम्णा धर्मस्य संवृद्धिः, प्रेम्णैव देवपूजनम् । प्रेम्णैव सद्गुरोः पूजा, प्रेम्णा विश्वं रसात्मकम् ॥६॥ जगच्छून्यं विना प्रेम्णा, नीरसं बहिरन्तरम् । लोकानां सर्वदा प्रेम, स्वान्तरबाह्यजीवनम् ॥७॥ बाह्यनैमित्तिकोरागो-वैषयिको विनश्वरः । श्रात्मज्ञानविहीनानां, भवत्येव जडात्मनाम् ||८|| [ १ ] For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82