Book Title: Prem Geeta
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir प्रेममूलं सुदाम्पत्यं, मित्रत्वं धर्मभावना । सम्बन्धाश्वविबोद्धव्याः, सम्यक्त्वर्धमेहतवः ॥ २१ ॥ दयादिधर्मभावानां मूलं प्रेमाऽस्ति भूतले । देवगुर्वादिषु प्रेम, जायते भव्यदेहिनाम् ॥२२॥ शुद्धप्रेम तथा ज्ञानं, सर्वदोषनिवर्त्तकम् । ज्ञानं शुष्कायते प्रेम्णा, विना सर्वत्र सर्वदा ॥ २३ ॥ कृत्रिमं प्रेम संतज्य, सत्यप्रेम भजख भोः? सात्त्विकं प्रेम लब्ध्वा त्वं, यास्यसि शाश्वतीं गतिम२४ अगम्यः प्रेमधर्मोऽस्ति, केचिज्जानन्ति योगिनः। जानतामपि लोकानां, कश्चित्तं याति वस्तुतः २५ शुद्धानन्दो न यत्रास्ति, तत्र प्रेमविकारता । विशुद्धप्रेम यत्राऽस्ति, तत्रानन्दः स्फुटो भवेत् ॥ २६ ॥ विशुद्धप्रेमतानस्य, प्राकट्यं प्रेमयोगिनाम् । हृत्सु संजायते रूप - वित्तादिमोहमन्तरा ॥२७॥ परस्परं हि लोकाना-मैक्यं भवति रागतः । आत्मपरात्मनोरैक्यं, भवेत्प्रेम्णा सुयोगिनाम् ॥ २८ ॥ सत्यप्रेम्णा भवेच्छ्रद्धा, सामर्थ्यं जायते हृदि । सर्वयोगेषु सत्प्रीतिः, श्रयते सर्वसद्गुणान् ॥२६॥ सत्यप्रेमिजनानां स्यात्, स्वार्पणं तु परस्परम्। मत्तद्भेदो न संबन्धे, सोऽहं सोऽहं परस्परम् ॥३०॥ त्वमेवाहमहं त्वं च, त्वन्मद्भावो न विद्यते । शुद्धप्रीत्या पराणांतु, निर्विकल्परसोदधिः ॥ ३१ ॥ निर्विकल्पमहाप्रेम-रसानुभवयोगतः । साक्षाच्छुद्धात्मसंवेदात्, प्राप्तव्यं नावशिष्यते ॥ ३२॥ [३] For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82