Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* पुनरपि शुश्रूषुः शिष्यस्त्रिषष्टिसंख्यं प्रश्नमाह
* प्र.६३-६४ प्र.६३-चिन्तामणिरिव दुर्लभमिह किम् ? व्याख्या-हे भगवन् ! इह अस्मिन् विश्वे चिन्तामणिरिव * उ.७९-८० चिंतारत्नमिव किं दुर्लभं दुःप्रापमिति प्रश्ने शिष्येण कृते गुरुप्येकोनाशीतिमितमुत्तरमाह-कथयामि ननु
चतुर्भद्रम् * चतुर्भद्रं, व्याख्या-हे वत्स ! नन्विति संबोधने कथयामि प्ररूपयामि, किं तदित्याह-चतुर्भद्रमिति चतुःसंख्यानां * * भद्राणां कल्याणानां समाहारश्चतुर्भद्रमिति गुरुणा प्रोक्ते पुनः शिष्यश्चतुःषष्टिसंख्यं प्रथमं प्रश्नमाह* प्र.६४-किं तद्वदन्ति भूयो विधूततमसो विशेषेण ? व्याख्या-हे भगवन् ! भूयः पुनरपि किं
तच्चतुर्भद्रं विधूततमसो निरस्ताज्ञाना विशेषणात्यंतं वदन्ति कथयन्तीति प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्य
शीतिमितमुत्तरमाह-दानं प्रियवाक्सहितं, व्याख्या-हे वत्स ! दीयते सत्पात्रादिभ्यस्ते चेदृशः, उक्तं च-सव्वुत्तमो र * जिणिंदो । पढमो पत्तं सुसाहुणो बीयं ।। तइयमणुव्वयधारी । दंसणसहियं चउत्थं तु ।।१।। एवंविधेभ्योऽर्ह* दादिम्यो यद्वितीर्यते तद्दानं, तदपि कया उक्त्या वितीर्यत इत्याह-प्रियवाक्सहितमिति प्रिया संतोषकारिणी या
वाग्वचनं तया सहितं युतं, यथा गृहायातं सत्पात्रं निरीक्ष्य रोमांचितांगो हर्षोत्फुल्लदृक्स्वात्मानं धन्यं र मन्यमानो यद्भगवानद्य मत्सदनं प्राप्तस्तन्मां प्रासुकाहारस्वीकारेणानुगृह्णात्वित्यादिप्रियालापपूर्वकं दानं दत्तं *
प्रश्नो . * प्रथमं भद्रं, कल्याणहेतुत्वात्, अत्रार्थे संगमकथा, तथाहि
सटीका * इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यत्रापणन्यस्तसमस्तशस्त-रेरत्नदन्तादिकवस्तुवृन्दम् ।। * ४१३
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450