Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
प्र.६४ उ.८० श्रेणिकागमनम्
* प्रतिस्थानं न्यस्तप्रशस्तनानामणिरत्नमुक्तावचूलैश्च कारयांचक्रे हट्टशोभा, प्रतिपदं निरमाप्यत विचित्रगीत* नृत्यवादित्रवादनादि, तदन्वाहूतः क्ष्मापतिः । सांतःपुरपरिकरस्तादृक्शोभां पश्यन् प्रमोदभरनिर्भरो नृपः प्राप * * शालिभद्रभवनम् । उचितप्रतिपत्तिपूर्वमपूर्वरत्नखचिते स्वर्णसिंहासने निवेशितो विशांपतिः । ततः सप्तभूमिक* सौधस्थशालिभद्राभ्यर्णमेत्य भद्रा मृदुस्वरमवादीत्-वत्सागच्छालयस्याधोभूमिकामविलम्बतः ।। यतोऽत्र श्रेणिकः । * संप्र-त्यागतो ननु वर्तते ।।१।। शालिभद्रोऽपि शनैरभाणीत्-मातर्यथातथा मूल्यं । कृत्वा श्रेणिकनामकम् ।। * * क्रयाणकं गृहाणास्मि-नर्थे किं मां हि पृच्छसि ।।१।। पुनर्भद्रा जगाद-न वस्तु वत्स! क्रयसीमेतत्परं तवान्यस्य
जनस्य चेशः ।। श्रीश्रेणिको राड् भवदीक्षणाय । गृहं समेतोऽस्ति तदेहि शीघ्रम् ।। १।। तन्निशम्य संजातविषादः * शालिभद्र इति व्यमृशत्-जानेऽहमेवेयत्कालं । नृपो नान्यस्तु संप्रति ।। ममाप्यस्ति प्रभुस्तद्धी । भवोऽयं दुःख* भाजनम् ।। १।। इति ध्यात्वा शालिभद्रश्चित्रशालातः समुत्तीर्य नृपनमनायागात् । राजापि तं नमन्तं स्वोत्संग-*
विभूषणीकृत्य तदंगावयवरूपलावण्यादिदर्शनं कुर्वन् यावत्तन्मुखांभोजे दृशं न्यवेशयत्, तावदीक्षांचकाराश्रुमिश्रं * तन्नयनयुगम् । ततः किमेतदिति राज्ञा पृष्टा भद्राभाषिष्ट-नृदेव! देवेष्वभवत्पितास्य । ततः सुतस्नेहवशादमुं के * सः ।। स्वर्लोकसत्काद्भुतगंधमाल्य-भूषादिकेनोपचरत्यजस्रम् ।। १।। अतो मनुष्योपभोग्य-भोगार्थविमुखं ह्यमुम् ।। * * विसर्जयत मंक्ष्वेव । स्वावासगमनं प्रति ।।२।। ततो राज्ञा तस्मिन् विसृष्टे भद्रा व्यजिज्ञपत्-अत्रैव सत्रा * * तंत्रेण । मदीयतनयोपरि ।। प्रसत्तिः क्रियतां भुक्ति-विधिनापि सुधाधव! ।।१।। नृपेणापि तद्वचसि स्वीकृतेऽकारि *
प्रश्नो. सटीका
JE Z
cation
SOBA
valeuse
ww.jaimellorary.org

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450