Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
शास्त्र
* अपि विद्वत्समाजेषु पंडितसभासु विभान्ति शोभन्त इत्यार्यार्थः । अथ ग्रंथकृत्स्वनामगर्भामार्यामाह
प्र.६४ * ॥ मूलम् ।। रचिता सितपटगुरुणा । विमला विमलेन रत्नमालेव ॥
उ.८३ प्रश्नोत्तररत्नमालेयं कंठगता कं न भूषयति ॥२९॥
समाप्तिः र व्याख्या-सितपटाः श्वेतांबरास्तेषु गुरुः सूरिपदं प्रतिष्ठस्तेन सितपटगुरुणा श्वेतांबराचार्येण विमलेन * विमलनाम्ना सूरिणा विमला गतकल्मषा निर्मला वा रत्नमालेव रचिता विहिता इयं प्रश्नोत्तररत्नमाला * कंठगता सती गलस्थिता सती पठिता सती कं भविकं न भूषयत्यलंकरोति? इत्यर्थः यथा रत्नमाला * गलकंदलस्था पुमांसं स्त्रियं वा भूषयति तथेयमपि प्रश्नोत्तररत्नमालाकंठपीठस्था अर्थापत्त्याधीता सती नरं *
नारी वा शृंगारयतीत्यार्यार्थः ।। समाप्ता चेयं प्रश्नोत्तररत्नमालावृत्तिः ।। * अथ प्रशस्तिः- श्रीवर्द्धमानजिनशासनमेरुभूषा-भूते सुधर्मगणनायकभद्रशाले ।। श्रीकोटिकाख्यगण-* * कल्पतरो सुवज्र-शाखेऽत्र गुच्छ इव राजति चंद्रगच्छः ।।१।। तस्मिन्महोज्ज्वलफलोपमितिं दधानः । श्रीवर्द्धमान * इति सूरिवरो बभूव ।। यस्याग्रतः समगृणोद्धरणोरगेंद्रः । सूरींद्रमंत्रविविधोपनिषत्प्रकारान् ।।२।। ततोऽस्तदोषो
नियतं विवस्वान् । जिनेश्वरः सूरिवरः समासीत् ।। नो चेत्कथं श्रीधनपालचित्ता-न्महातमःस्तोममपाकरोद् । प्रश्नो. * द्राक् ।।३।। तस्माद्बभूवाभयदेवसूरि-र्यः स्तंभने पार्श्वजिनेंद्रमूर्तिम् ।। प्रकाश्य शस्याश्च नवांगवृत्तीः । कृत्वा * सटीका * कृतार्थं स्वजनुस्ततान ।।४।। तदनु जिनवल्लभाख्यः । प्रख्यातः समयकनककषपट्टः ।। यत्प्रतिबोधनपटहो- * ४३६

Page Navigation
1 ... 443 444 445 446 447 448 449 450