Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
* कोऽप्येष निर्जरः ।। यतो न याति या राज-कुलेऽपि कारणं विना ।।१।। साऽधुना पादचारेण । समागत्य * प्र.६४ * स्वधामतः ।। अमुष्य पांथमात्रस्य । विनयं तनुते कथम्? ।।१।। अत्रांतरे तदादिष्टतुरंगमादिसामग्र्यामागतायां
उ.८३ * देवदत्ताऽवादीत्-स्वामिन् प्रसादः क्रियतां । स्वागमेन ममोपरि ।। कदाचन गरीयांसः । परवांछाभिदो न हि
पण:कृतः * ॥१।। इत्युदीर्य तयाऽऽरोहितहयो ध्वजभुजंगो राजभवनं सोत्सवं नीतः, कोऽयमित्युक्ता राज्ञा देवदत्ता , * स्माह-देव ध्वजभुजंगोऽयं । युष्मत्क्रमकृतानतिः ।। येनाहं करिणां पंच-शतीं प्रेष्याशु मोचिता ।।१।। * नृपोऽप्यवोचत्-रंभोरु युक्तमाचीर्णं । यदेवं हि प्रवेशितः ।। असौ गुणी तदस्यैव । सेवया स्वं कृतार्थय ।।१।। * - देवदत्ताप्यवादीत्-महाराजामुना किंचि-त्स्वं पंचकुलपार्श्वतः ।। लभ्यमस्तितमां तस्मात् । प्रसद्याशु प्रदाप्यताम् र * ।।१।। राजापि पंचकुलमाकार्य प्रोचे-भो भो अस्य महापुंसो । यद्देयं वस्तु विद्यते ।। तत्प्रदत्त जवेनैव । * विलम्बो न विधीयताम् ।।१।। पंचकुलेनापि ध्वजभुजंगाने विज्ञप्तं-देवास्मद्वेश्मसर्वस्वं । भवदायत्तमेव हि ।। + तथापि जीवन्ति यथा । कुटुंबानि तथा कुरु ।।१।। ध्वजभुजंगोऽपि कृपया तद्गृहसर्वस्वार्द्धमगृहीत् । ततो * राज्ञा बहुमानपूर्वं विसृष्टो ध्वजभुजंगो देवदत्तायुतो ययो गृहं, सेवतेस्म विषयान् । कियत्स्वपि गतेषु दिनेषु । * देवदत्तयाभाणि-प्राणनाथ! भवत्स्थान-दर्शनाय ममाधिकम् ।। कौतुकं तदितस्तत्र । गम्यते सपरिच्छदैः ।।१।। * * ध्वजभुजंगोऽपि जगौ-यदेवं देवि! तत्पूर्वं । गत्वा कुर्वे गृहादिकम् ।। पश्चादानाययिष्ये त्वां । प्रेष्यावश्यं *
सटीका * निजान्नरान् ।।१।। इति तां संभाष्य ध्वजभुजंगो ययौ यत्र वृक्षे पूर्वपरिचितो यक्षोऽस्ति। ततः स्थापितवरं ४३३
प्रश्नो.
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450