Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri,
Publisher: Divya Darshan Trust
View full book text
________________
********
******
अमुच्यत च नवलक्षदीनारार्पणपूर्वं पंचकुलं, तत्र केचन कर्मकराः खनन्ति केचन धूलिं वहन्ति केचन च सोपानपंक्तिषु रूपं घटयन्ति । इतो ध्वजभुजंगोऽपि भोजनार्थी तत्र कर्म कर्तुमारेभे । तत्र चैवं कर्मकृतां भोजनं वितीर्यते-उत्तमानां कर्मकराणामुत्तमाः स्त्रियः परिवेषयन्ति मध्यमानां मध्यमाः, जघन्यानां तु जघन्याः परिवेषयन्ति । ध्वजभुजंगोऽपि भोजनसमये जघन्यकर्मकृतां पंक्तौ भोजनाय न्यवेश्यत तदा तस्य कापि श्यामा मलिना बिभित्सा लंबस्तनी दुर्गंधा नासामलखरंटितकरं शाटके लूहयन्ती दासी परिवेषयितुमागात्, तां प्रेक्ष्य ध्वजभुजंगो वक्रीकृतास्यः कानप्यासन्नान् प्रधानपुरुषानभाषत भो भो यादृक्षतादृक्ष - भोज्यं भवतु किंत्विति ।। वच्येषा कुत्सिता नात्र । कल्प्यते परिवेषिका ||१|| प्रधानपुरुषा अप्याख्यन्-रे विद्मो देवदत्ता ते । भोजनं दातुमेष्यति ? । सोऽप्यूचे - हंहो हसत किं यूयं । प्रसारिततराननाः || १|| यदि सा भोजनं दातु-मागच्छतितरां तदा ।। किं हारयत तद् ब्रूत । पणः कोऽत्र विधीयते ? ||२|| तैरपि तदसंभाव्यं विभाव्याऽभाणि-अरेऽस्मत्सद्मसर्वस्वं । परं किं हार्यते त्वया ।। ध्वजभुजंगोऽप्यगृणात् - भो भोः शिरो हारयामि । यतः स्वमिदमेव मे ||१|| अत्रार्थे जाताः साक्षिणः ततो ध्वजभुजंगेन केनचित्पुंसा देवदत्ता स्वागमनं ज्ञापिता, सापि तदाकर्ण्य हृष्टा, तत्क्षणादेव तत्रेत्याकृत्या तमेव मत्वा योजितांजलिर्व्यजिज्ञपत्-स्वामिन्! प्रसद्य मे सद्यः । पवित्रीकुरु मंदिरम् ।। सोऽप्यभाणीत् कृशांग्यत्रैव कृत्वाहं । भुक्तिमेष्यामि वेश्मनि ||१|| ततस्तां स्वयमेव तस्य स्नानभोजनविलेपनादिसामग्री वितन्वतीं दृष्ट्वा साञ्श्चर्यैः प्रधानैर्ध्यातं - नूनमाच्छादितस्वीय-रूपः
For Personal & Private Use Only
प्र. ६४ उ. ८३
गाधिपुरं प्रति गमनम्
प्रश्नो सटीका
४३२
www.jainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450