SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ******** ****** अमुच्यत च नवलक्षदीनारार्पणपूर्वं पंचकुलं, तत्र केचन कर्मकराः खनन्ति केचन धूलिं वहन्ति केचन च सोपानपंक्तिषु रूपं घटयन्ति । इतो ध्वजभुजंगोऽपि भोजनार्थी तत्र कर्म कर्तुमारेभे । तत्र चैवं कर्मकृतां भोजनं वितीर्यते-उत्तमानां कर्मकराणामुत्तमाः स्त्रियः परिवेषयन्ति मध्यमानां मध्यमाः, जघन्यानां तु जघन्याः परिवेषयन्ति । ध्वजभुजंगोऽपि भोजनसमये जघन्यकर्मकृतां पंक्तौ भोजनाय न्यवेश्यत तदा तस्य कापि श्यामा मलिना बिभित्सा लंबस्तनी दुर्गंधा नासामलखरंटितकरं शाटके लूहयन्ती दासी परिवेषयितुमागात्, तां प्रेक्ष्य ध्वजभुजंगो वक्रीकृतास्यः कानप्यासन्नान् प्रधानपुरुषानभाषत भो भो यादृक्षतादृक्ष - भोज्यं भवतु किंत्विति ।। वच्येषा कुत्सिता नात्र । कल्प्यते परिवेषिका ||१|| प्रधानपुरुषा अप्याख्यन्-रे विद्मो देवदत्ता ते । भोजनं दातुमेष्यति ? । सोऽप्यूचे - हंहो हसत किं यूयं । प्रसारिततराननाः || १|| यदि सा भोजनं दातु-मागच्छतितरां तदा ।। किं हारयत तद् ब्रूत । पणः कोऽत्र विधीयते ? ||२|| तैरपि तदसंभाव्यं विभाव्याऽभाणि-अरेऽस्मत्सद्मसर्वस्वं । परं किं हार्यते त्वया ।। ध्वजभुजंगोऽप्यगृणात् - भो भोः शिरो हारयामि । यतः स्वमिदमेव मे ||१|| अत्रार्थे जाताः साक्षिणः ततो ध्वजभुजंगेन केनचित्पुंसा देवदत्ता स्वागमनं ज्ञापिता, सापि तदाकर्ण्य हृष्टा, तत्क्षणादेव तत्रेत्याकृत्या तमेव मत्वा योजितांजलिर्व्यजिज्ञपत्-स्वामिन्! प्रसद्य मे सद्यः । पवित्रीकुरु मंदिरम् ।। सोऽप्यभाणीत् कृशांग्यत्रैव कृत्वाहं । भुक्तिमेष्यामि वेश्मनि ||१|| ततस्तां स्वयमेव तस्य स्नानभोजनविलेपनादिसामग्री वितन्वतीं दृष्ट्वा साञ्श्चर्यैः प्रधानैर्ध्यातं - नूनमाच्छादितस्वीय-रूपः For Personal & Private Use Only प्र. ६४ उ. ८३ गाधिपुरं प्रति गमनम् प्रश्नो सटीका ४३२ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy