Book Title: Prashnottar Ratnamala
Author(s): Vimalacharya, Devendrasuri, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 431
________________ * क्वचन तवैतद्दारुण-शिवारवश्रवणजागरणम् ।।२।। हा हा दुश्चरतपसा । शोषितगात्रोऽपि निजगृहं प्राप्तः।। * प्र.६४ * यन्नोपलक्षितस्त्वं । तद्धिग् धिग्मंदभाग्यां माम् ।।३।। किं बहुना क्षणमेकं । मां पापां पश्य सुप्रसन्नदृशा ।। उ.८० यस्मात्कदापि विमुखा । भवन्ति न प्रार्थिताः सन्तः ।।४।। इत्यादिविलापिनीं सवधूकां भद्रां कथमपि प्रबोध्य पादपोपग माऽनशनम् * श्रेणिकनृपः सधन्यं शालिभद्रं नत्वा पुरमध्यमनैषीत् । तावपि पादपोपगमनमनशनं प्रपाल्य सर्वार्थसिद्धविमाने * * सुरावभूतां, ततश्च च्युतौ तौ सेत्स्यतः । इति संगमस्य चरितश्रवणा-त्प्रियवाक्यदानविषयेऽनुदिनम् ।। भविका * उ.८१ * मतिं कुरुत येन । भवेद्भवतां नरामरशिवोरुसुखम् ।।१।। ज्ञानमगर्वम् ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तरत्नमालावृत्तौ प्रियवाग्युतदाने संगमकथा ।। - पुनरपि तस्मिन्नेव चतुःषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुर्द्वितीयमेकाशीतिमितमुत्तरमाह-ज्ञानमगर्व, व्याख्या-हे । * वत्स ! ज्ञायते सचराचरं वस्तुजातमिति ज्ञानं मतिश्रुतावधिमनःपर्ययकेवलस्वरूपं लोकालोकप्रकाशकं, मैं * यतः-चंदाइच्चगहाणं । पहा पयासेइ परिमियं खित्तं ।। केवलियणाणलंभो । लोयालोयं पयासेइ ।।१।। * तत्किंविशिष्टम् ? अगर्वं, नास्ति गर्वोऽहंकारो यत्र तदगर्वम् । यतो ज्ञानादहंकारः प्रजायते, तस्मिंश्च सति ये मंदायन्ते तेऽचिकित्स्या एव, उक्तं च-ज्ञानं मददर्पहरं । माद्यति यस्तेन तस्य को दोषः? (कोऽगदः प्रश्नो. * पाठा.) ।। अमृतं यस्य विषायते । तस्य चिकित्सा कथं क्रियते? ।।१।। अतो ज्ञानमगर्वमिति द्वितीयं भद्रं, सटीका * अत्रार्थे कालिकाचार्यकथा, तथाहि * For Personal & Private Use Only ४२२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450