________________
* पुनरपि शुश्रूषुः शिष्यस्त्रिषष्टिसंख्यं प्रश्नमाह
* प्र.६३-६४ प्र.६३-चिन्तामणिरिव दुर्लभमिह किम् ? व्याख्या-हे भगवन् ! इह अस्मिन् विश्वे चिन्तामणिरिव * उ.७९-८० चिंतारत्नमिव किं दुर्लभं दुःप्रापमिति प्रश्ने शिष्येण कृते गुरुप्येकोनाशीतिमितमुत्तरमाह-कथयामि ननु
चतुर्भद्रम् * चतुर्भद्रं, व्याख्या-हे वत्स ! नन्विति संबोधने कथयामि प्ररूपयामि, किं तदित्याह-चतुर्भद्रमिति चतुःसंख्यानां * * भद्राणां कल्याणानां समाहारश्चतुर्भद्रमिति गुरुणा प्रोक्ते पुनः शिष्यश्चतुःषष्टिसंख्यं प्रथमं प्रश्नमाह* प्र.६४-किं तद्वदन्ति भूयो विधूततमसो विशेषेण ? व्याख्या-हे भगवन् ! भूयः पुनरपि किं
तच्चतुर्भद्रं विधूततमसो निरस्ताज्ञाना विशेषणात्यंतं वदन्ति कथयन्तीति प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्य
शीतिमितमुत्तरमाह-दानं प्रियवाक्सहितं, व्याख्या-हे वत्स ! दीयते सत्पात्रादिभ्यस्ते चेदृशः, उक्तं च-सव्वुत्तमो र * जिणिंदो । पढमो पत्तं सुसाहुणो बीयं ।। तइयमणुव्वयधारी । दंसणसहियं चउत्थं तु ।।१।। एवंविधेभ्योऽर्ह* दादिम्यो यद्वितीर्यते तद्दानं, तदपि कया उक्त्या वितीर्यत इत्याह-प्रियवाक्सहितमिति प्रिया संतोषकारिणी या
वाग्वचनं तया सहितं युतं, यथा गृहायातं सत्पात्रं निरीक्ष्य रोमांचितांगो हर्षोत्फुल्लदृक्स्वात्मानं धन्यं र मन्यमानो यद्भगवानद्य मत्सदनं प्राप्तस्तन्मां प्रासुकाहारस्वीकारेणानुगृह्णात्वित्यादिप्रियालापपूर्वकं दानं दत्तं *
प्रश्नो . * प्रथमं भद्रं, कल्याणहेतुत्वात्, अत्रार्थे संगमकथा, तथाहि
सटीका * इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यत्रापणन्यस्तसमस्तशस्त-रेरत्नदन्तादिकवस्तुवृन्दम् ।। * ४१३
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org